SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ द्वितीयापि द्विविधेत्यतिदिशन्नाह– एवं सामन्तोवणिवाइया वि त्ति, तथाहिकस्यापि षण्डो रूपवानस्ति, तं च जनो यथा यथा प्रलोकयति प्रशंसयति च तथा तथा तत्स्वामी हृष्यतीति जीवसामन्तोपनिपातिकी, तथा रथादौ तथैव हृष्यतोऽजीवसामन्तोपनिपातिकीति २४। अन्यथा वा द्वे- साहत्थिया चेव त्ति स्वहस्तेन निर्वृत्ता स्वाहस्तिकी, तथा नेसत्थिया चेव त्ति, निसर्जनं निसृष्टम्, क्षेपणमित्यर्थः, तत्र भवा तदेव वा नैसृष्टिकी, निसृजतो यः कर्मबन्ध इत्यर्थः, निसर्ग एव वेति २५।। तत्र आद्या द्वेधा– जीवसाहत्थिया चेव त्ति यत् स्वहस्तगृहीतेन जीवेन जीवं मारयति सा जीवस्वाहस्तिकी, तथा अजीवसाहत्थिया चेव त्ति यच्च स्वहस्तगृहीतेनैवाजीवेन खड्गादिना जीवं मारयति सा अजीवस्वाहस्तिकीति । अथवा स्वहस्तेन जीवं ताडयत एका, अजीवं ताडयतोऽन्येति २६। ___ द्वितीयाऽपि जीवा-ऽजीवभेदैवेत्यतिदिशन्नाह– एवं नेसत्थिया चेव त्ति, तथाहि- राजादिसमादेशाद्यदुदकस्य यन्त्रादिभिर्निसर्जनं सा जीवनैसृष्टिकीति, यत्तु काण्डादीनां धनुरादिभिः सा अजीवनैसृष्टिकीति । अथवा गुर्बादौ जीवं शिष्यं पुत्रं वा निसृजतो ददत एका, अजीवं पुनरेषणीयभक्तपानादिकं निसृजतो त्यजतोऽन्येति २७। पुनरन्यथा द्वे- आणवणिया चेव त्ति आज्ञापनस्य आदेशनस्येयमाज्ञापनमेव वेत्याज्ञापनी, सैवाऽऽज्ञापनिका, तज्जः कर्मबन्धः आदेशनमेव वेति, आनायनं वा आनायनी । तथा वेयारणिया चेव त्ति विदारणं विचारणं वितारणं वा स्वार्थिकप्रत्ययोपादानाद् वैदारणीत्यादि वाच्यमिति २८ एते च द्वे अपि द्वेधा जीवाजीवभेदादिति, तथाहि- जीवमाज्ञापयत आनाययतो वा परेण जीवाज्ञापनी जीवानायनी वा, एवमेवाजीवविषया अजीवाज्ञापनी अजीवानायनी वेति २९। ___ तथा वेयारणिय त्ति जीवमजीवं वा विदारयति स्फोटयतीति. अथवा जीवमजीवं वाऽसमानभावेषु विक्रीणति सति यद्वैभाषिको विचारयति परियच्छावेइ त्ति भणितं होति, अथवा जीवं पुरुषं वितारयति प्रतारयति वञ्चयतीत्यर्थः, असद्गुणैरेतादृशः
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy