SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । हारि०] ति १७। __द्वितीयाऽपि द्वेधा- ऊणाइरित्तमिच्छादसणवत्तिया चेव त्ति ऊनं स्वप्रमाणाद्धीनमतिरिक्तं ततोऽधिकमात्मादि वस्तु, तद्विषयं मिथ्यादर्शनमूनातिरिक्तमिथ्यादर्शनम्, तदेव प्रत्ययो यस्याः सा ऊनातिरिक्तमिथ्यादर्शनप्रत्ययेति । तथाहि- कोऽपि मिथ्यादृष्टिरात्मानं शरीरव्यापकमपि अङ्गुष्ठपर्वमात्रं यवमानं श्यामाकतन्दुलमानं वेति हीनतयाऽवैति, तथाऽन्यः पञ्चधनुःशतिकं सर्वव्यापकं वेत्यधिकतयाऽभिमन्यते, तथा तव्वइरित्तमिच्छादसणवत्तिया चेव त्ति तस्माद् ऊनातिरिक्तमिथ्यादर्शनाद् व्यतिरिक्तं मिथ्यादर्शनं नास्त्येवात्मेत्यादिमतरूपं प्रत्ययो यस्याः सा तथेति १८। पुनरन्यथा द्वे- दिट्ठिया चेव त्ति दृष्टेर्जाता दृष्टिजा, अथवा दृष्टं दर्शनं वस्तु वा निमित्ततया यस्यामस्ति सा दृष्टिका, दर्शनार्थं या गतिक्रिया दर्शनाद् वा यत् कर्मोदेति सा दृष्टिजा दृष्टिका वा, तथा पुट्ठिया चेव त्ति पृष्टिः पृच्छा, ततो जाता पृष्टिजा, प्रश्नजनितो व्यापारः, अथवा पृष्टं प्रश्नः वस्तु वा तदस्ति कारणत्वेन यस्यां सा पृष्टिकेति, अथवा स्पृष्टिः स्पर्शनं ततो जाता स्पृष्टिजा, तथैव स्पृष्टिकाऽपीति १९। ___ आद्या द्वेधा- जीवदिट्ठिया चेव त्ति या अश्वादिदर्शनार्थं गच्छतः, तथा अजीवदिट्ठिया चेव त्ति अजीवानां चित्रकर्मादीनां दर्शनार्थं गच्छतो या सा अजीवदृष्टिकेति २०॥ ___ एवं पुट्ठिया वि त्ति एवमिति जीवाजीवभेदेन द्विधैव, तथाहि- जीवमजीवं वा राग-द्वेषाभ्यां पृच्छतः स्पृशतो वा या सा जीवपृष्टिका जीवस्पृष्टिका वा अजीवपृष्टिका अजीवस्पृष्टिका वेति २१। पुनरन्यथा द्वे- पाडुच्चिया चेव त्ति बाह्यं वस्तु प्रतीत्य आश्रित्य भवा प्रातीत्यिकी, तथा सामन्तोवणिवाइया चेव त्ति समन्तात् सर्वत उपनिपातो जनमीलकस्तस्मिन् भवा सामन्तोपनिपातिकीति २२। आद्या द्वेधा- जीवपाडुच्चिया चेव त्ति जीवं प्रतीत्य यः कर्मबन्धः सा तथा, तथा अजीवपाडुच्चिया चेव त्ति अजीवं प्रतीत्य यो राग-द्वेषोद्भवस्तज्जो वा बन्धः सा अजीवप्रातीत्यिकीति २३।
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy