SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३८८ पञ्चमोऽस्ति, स च सन्नपि नोक्तः, चतु:स्थानकानुरोधात्, भावना हि पञ्चाऽऽगमेऽभिहिता:, सन्तीति ज्ञेयं, आह चकंदप्प १ देवकिब्बिस २ अभिओगा ३ आसुरा य ४ संमोहा ५ । एसा उ संकिलिट्ठा पंचविहा भावणा भणिया ॥ [बृहत्कल्प० १२९३] आसां च मध्ये यो यस्यां भावनायां वर्तते स तद्विधेषु देवेषु गच्छति चारित्रलेशप्रभावात्, उक्तं च जो संजओ वि एयासु अप्पसत्थासु वदृइ कहिं(?)चि । सो तविहेसु गच्छइ सुरेसु भइओ चरणहीणो ॥ [बृहत्कल्प० १२९४] इति । आसुरादिरपध्वंस उक्तः, स चासुरत्वादिनिबन्धन इत्यसुरादिभावना-स्वरूपभूतान्यसुरादित्वसाधनकर्मणां कारणानि सूत्रचतुष्टयेनाह- चउहि ठाणेहीत्यादि सूत्रचतुष्टयं सुगमम्, नवरम् असुरेषु भव आसुरः असुरविशेषः, तद्भाव: आसुरत्वम्, तस्मै आसुरत्वाय तदर्थमित्यर्थः, तद्यथा-क्रोधनशीलतया कोपस्वभावत्वेन, प्राभृतशीलतया कलहनस्वरूपतया, संसक्ततप:कर्मणा आहारोपधिशय्यादिप्रतिबद्धभावतपश्चरणेन, निमित्ताजीवनतया त्रैकालिकलाभालाभादिविषयनिमित्तोपाताहाराद्युपजीवनेनेति, तथा अभियोगं व्यापारणमर्हन्तीत्यभियोग्या: किङ्करदेवविशेषाः, तद्भावस्तत्ता, तस्यै तया वेति, आत्मोत्कर्षेण आत्मगुणाभिमानेन, परपरिवादेन परदोषपरिकीर्तनेन, भूतिकर्मणा ज्वरितादीनां भूत्यादिभी रक्षादिकरणेन, कौतुककरणेन सौभाग्यादिनिमित्तं परस्नपनकादिकरणेनेति, इयमप्येवमन्यत्र कोउय भूईकम्मे पसिणा इयरे निमित्तमाजीवी । इड्ढिरससायगुरुओ अभिओगं भावणं कुणइ ॥ [बृहत्कल्प० १३०८] इति । प्रश्नोऽङ्गुष्ठप्रश्नादिः, इतरः स्वप्नविद्यादिरिति ।। तथा सम्मुह्यतीति सम्मोहः मूढात्मा देवविशेष एव, तद्भावस्तत्ता, तस्यै सम्मोहतायै सम्मोहत्वाय सम्मोहतया वेति, उन्मार्गदेशनया सम्यग्दर्शनादिरूपभावमार्गातिक्रान्तधर्मप्रथनेन, मार्गान्तरायेण मोक्षाध्वप्रवृत्ततद्विघ्नकरणेन, कामाशंसाप्रयोगेण शब्दादावभिलाषकरणेन, भिज त्ति लोभो गृद्धिस्तेन निदानकरणेन ‘एतस्मात्
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy