SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । २८३ चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दीणे णाममेगे दीणसेवी, ह [= ४] १५ । एवं दीणे णाममेगे दीणपरियाए ह्व [= ४], १६ । एवं दीणे णाममेगे दीणपरियाले ह्व [= ४], १७ । सव्वत्थ चउभंगो । [टी०] असलीनमेव प्रकारान्तरेण सप्तदशभिश्चतुर्भङ्गीरूपैर्दीनसूत्रैराह-दीनो दैन्यवान् क्षीणोर्जितवृत्तिः पूर्वं पश्चादपि दीन एव, अथवा दीनो बहिर्वृत्त्या पुनर्दीनोऽन्तर्वृत्त्येत्यादिश्चतुर्भङ्गी, तथा दीनो बहिर्वृत्त्या म्लानवदनत्वादि-गुणयुक्तशरीरेणेत्यर्थः, एवं प्रज्ञासूत्रं यावदादिपदं व्याख्येयम्, दीनपरिणत: अदीनः सन् दीनतया परिणतोऽन्तर्वृत्त्येत्यादिश्चतुर्भङ्गी २, तथा दीनरूपो मलिनजीर्णवस्त्रादिनेपथ्यापेक्षया ३, तथा दीनमनाः स्वभावत एवानुन्नतचेता: ४, दीनसङ्कल्प उन्नतचित्तस्वाभाव्येऽपि कथञ्चिद्दीनविमर्श: ५, तथा दीनप्रज्ञ: हीनसूक्ष्मार्थालोचन: ६, तथा दीनश्चित्तादिभिरेवमुत्तरत्राप्यादिपदम्, तथा दीनदृष्टिर्विच्छायचक्षुः ७, तथा दीनशीलसमाचारः हीनधर्मानुष्ठान: ८, तथा दीनव्यवहारो हीनान्योन्यदान-प्रतिदानादिक्रिय: हीनविवादो वा ९, तथा दीनपराक्रमो हीनपुरुषकार इति १०, तथा दीनस्येव वृत्तिः वर्त्तनं जीविका यस्य स दीनवृत्ति: ११, तथा दीनं दैन्यवन्तं पुरुषं दैन्यवद्वा यथा भवति तथा याचत इत्येवंशीलो दीनयाची, दीनं वा यातीति दीनयायी, दीना वा हीना जातिरस्येति दीनजाति: १२, तथा दीनवद्दीनं वा भाषते दीनभाषी १३, दीनवदवभासते प्रतिभाति अपभाषते वा याचत इत्येवंशीलो दीनावभासी दीनापभाषी वा १४, तथा दीनं नायकं सेवत इति दीनसेवी १५, तथा दीनस्येव पर्याय: अवस्था प्रव्रज्यादिलक्षणो यस्य स दीनपर्याय: १६, दीनपरियाले त्ति दीन: परिवारो यस्य स तथा १७, सव्वत्थ चउभंगो त्ति सर्वसूत्रेषु चत्वारो भङ्गा द्रष्टव्या इति । [सू० २८०] चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अजे णाममेगे अजे ४, चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अजे णाममेगे अजपरिणते ४, २। एवं अजरूवे ३, अजमणे ४, अजसंकप्पे ५, अजपन्ने ६, अजदिट्ठी ७, अजसीलाचारे ८, अजववहारे ९, अजपरक्कमे १०, अजवित्ती ११,
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy