SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । १९३ भिक्षुर्भिनत्ति वा क्षुधमिति भिक्षुः, तस्य पानकानि पानाहारा:, उत्स्वेदेन निर्वृत्तमुत्स्वेदिमं येन व्रीह्यादिपिष्टं सुराद्यर्थम् उत्स्वेद्यते, तथा संसेकेन निवृत्तमिति संसेकिमम् अरणिकादिपत्रशाकमुत्काल्य येन शीतलजलेन संसिच्येत तदिति, तन्दुलधावनं प्रतीतमेव १। तिलोदकादि तत्प्रक्षालनजलम्, नवरं तुषोदकं व्रीादकम् २। आयामकम् अवश्रावणम्, सौवीरकं काञ्जिकम्, शुद्धविकटम् उष्णोदकम् ३। उपहृतमुपहितम्, भोजनस्थाने ढौकितं भक्तमिति भावः, फलिकं प्रहेणकादि, तच्च तदुपहृतं चेति फलिकोपहतम् अवगृहीताभिधानपञ्चमपिण्डैषणाविषयभूतमिति। तथा शुद्धम् अलेपकृतं शुद्धौदनं च, तच्च तदुपहृतं चेति शुद्धोपहृतम्, एतच्चाल्पलेपाभिधानचतुर्थेषणाविषयभूतमिति । तथा संसृष्टं नाम भोक्तुकामेन गृहीतं कूरादौ क्षिप्ते हस्त: क्षिप्तो न तावत् मुखे क्षिपति तच्च लेपालेपकरणस्वभावमिति, तदेवंभूतमुपहृतं संसृष्टोपहृतम्, इदं चतुर्थेषणात्वेन भजनीयम्, लेपालेपकृतादिरूपत्वादस्येति, अत्र गाथा सुद्धं च अलेवकडं अहवण सुद्धोदणो भवे सुद्धं । संसर्ट आउत्तं भोक्तुमारब्धमित्यर्थः लेवाडमलेवडं वा वि ॥ [व्यव० ९।३८२०] त्ति । इह च त्रये एकत्व-द्वि-त्रिसंयोगैः सप्ताभिग्रहवन्त: साधवो भवन्तीति ४ । __ अवगृहीतं नाम केनचित् प्रकारेण दायकेनात्तं भक्तादि यदिति भक्तम्, चकारा: समुच्चयार्थाः, अवगृह्णाति आदत्ते हस्तेन दायकस्तदवगृहीतम्, एतच्च षष्ठी पिण्डैषणेति, एवं च वृद्धव्याख्या- परिवेषक: पिटकाया: कूरं गृहीत्वा यस्मै दातुकामस्तद्भाजने क्षेप्तुमुपस्थितः इत्यादि महान् ५। ___ तथा, अवमम् ऊनमुदरं जठरं यस्यासाववमोदरः, अवमं वोदरम् अवमोदरम्, तद्भावोऽवमोदरता, प्राकृतत्वादोमोयरिय त्ति, अवमोदरस्य वा करणमवमोदरिका, व्युत्पत्तिरेवेयमस्य, प्रवृत्तिस्तूनतामात्रे, तत्र प्रथमा जिनकल्पिकादीनामेव न पुनरन्येषाम्, शास्त्रीयोपध्यभावे हि समग्रसंयमाभावादिति, अतिरिक्ताग्रहणतो वोनोदरतेति, उक्तं चजं वइ उवगारे उवकरणं तं सि होइ उवगरणं ।। अइरेगं अहिगरणं अजओ यजयं परिहरंतो ॥ [ ] अयतश्च यकद् भुञ्जानो भवतीत्यर्थः। भक्तपानावमोदरता पुनरात्मीयाहारमान
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy