SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ तृतीयमध्ययनं त्रिस्थानकम् । द्वितीय उद्देशकः । १५९ चायमभिसम्बन्धः- अनन्तरसूत्रेण चन्द्रप्रज्ञप्त्यादिग्रन्थस्वरूपमुक्तमिह तु चन्द्रादीनामेवार्थानामाधारभूतस्य लोकस्य स्वरूपमभिधीयत इत्येवंसम्बन्धवतोऽस्य सूत्रस्य व्याख्या- लोक्यते केवलालोकेनेति लोकः, नाम-स्थापने इन्द्रसूत्रवत्, द्रव्यलोकोऽपि तथैव, नवरं ज्ञशरीर-भव्यशरीरव्यतिरिक्तद्रव्यलोको धर्मास्तिकायादीनि जीवाजीवरूपाणि रूप्यरूपीणि सप्रदेशाप्रदेशानि द्रव्याण्येव, द्रव्याणि च तानि लोकश्चेति विग्रहः । भावलोकं त्रिधाऽऽह- तत्र ज्ञानं चासौ लोकश्चेति ज्ञानलोकः, भावलोकता चास्य क्षायिक-क्षायोपशमिकभावरूपत्वात्, क्षायिकादिभावानां च भावलोकत्वेनाभिहितत्वाद्, उक्तं च ओदइय उवसमिए य खइए य तहा खओवसमिए य । परिणाम सन्निवाए य छव्विहो भावलोगो उ ॥ [आव० भा० २००] त्ति । एवं दर्शन-चारित्रलोकावपीति । अथ क्षेत्रलोकं त्रिधाऽऽह– तिविहे इत्यादि, इह च बहुसमभूमिभागे रत्नप्रभाभागे मेरुमध्ये अष्टप्रदेशो रुचको भवति, तस्योपरितनप्रतरस्योपरिष्टान्नव योजनशतानि यावज्ज्योतिश्चक्रस्योपरितलस्तावत् तिर्यग्लोकः, ततः परत ऊर्श्वभागस्थितत्वात् ऊर्ध्वलोको देशोनसप्तरज्जुप्रमाणः, रुचकस्याधस्तनप्रतरस्याधो नव योजनशतानि यावत्तावत्तिर्यग्लोकः, ततः परतोऽधोभागस्थितत्वादधोलोकः सातिरेकसप्तरज्जुप्रमाणः, अधोलोकोर्ध्वलोकयोर्मध्ये अष्टादशयोजनशतप्रमाणस्तिर्यग्भागस्थितत्वात् तिर्यग्लोक इति, प्रकारान्तरेण चायं गाथाभिर्व्याख्यायते अहवा अहपरिणामो खेत्तणुभावेण जेण ओसन्नं । असुहो अहो त्ति भणिओ दव्वाणं तेणऽहोलोगो ॥१॥ उर्ल्ड उवरिं जं ठिय सुहखेत्तं खेत्तओ य दव्वगुणा । उप्पज्जति सुभा वा तेण तओ उड्डलोगो त्ति ॥२॥ मज्झणुभावं खेत्तं जं तं तिरियं ति वयणपज्जवओ । भण्णइ तिरिय विसालं अओ य तं तिरियलोगो त्ति ॥३॥ [ ] [सू० १६२] चमरस्स णं असुरिंदस्स असुरकुमाररन्नो ततो परिसातो
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy