________________
द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः ।।
१०७ प्रदेशैरिलिकागतिकाले सव्वेण वि त्ति सर्वैरपि गेन्दुकगतिकाले शरीरं फुरित्ताणं ति स्फोरयित्वा सस्पन्दं कृत्वा निर्याति, अथवा शरीरकं देशतः शरीरदेशमित्यर्थः, स्फोरयित्वा पादादिनिर्याणकाले. सर्वतः सर्वं शरीरं स्फोरयित्वा सर्वाङ्गनिर्याणावसर इति । स्फुरणाच्च सात्मकत्वं स्फुटं भवतीत्याह- एवमित्यादि, एवमिति तथैव, देशेन आत्मदेशेन शरीरकं फुडित्ताणं ति सचेतनतया स्फुरणलिङ्गतः स्फुटं कृत्वा इलिकागतौ, सर्वेण सर्वात्मना स्फुटं कृत्वा गेन्दुकगताविति । अथवा शरीरकं देशतः सात्मकतया स्फुटं कृत्वा पादादिना निर्याणकाले, सर्वतः सर्वाङ्गनिर्याणप्रस्ताव इति । अथवा फुडित्ता स्फोटयित्वा विशीर्णं कृत्वा, तत्र देशतोऽक्ष्यादिविघातेन, सर्वत: सर्वविशरणेन देव-दीपादिजीववदिति । शरीरकं सात्मकतया स्फुटीकुर्वंस्तत्संवर्तनमपि कश्चित् करोतीत्याह- एवमित्यादि, एवमिति तथैव संवदृइत्ताणं ति संवर्त्य सङ्कोच्य शरीरकं देशेनेलिकागतौ शरीरस्थितप्रदेशैः सर्वेण सर्वात्मना गेन्दुकगतौ सर्वात्मप्रदेशानां शरीरस्थितत्वान्निर्यातीति, अथवा शरीरकं देशतः संवर्त्य हस्तादिसङ्कोचनेन, सर्वतः सर्वशरीरसङ्कोचनेन पिपीलिकादिवदिति । आत्मनश्च संवर्त्तनं कुर्वन् शरीरस्य निवर्त्तनं करोतीत्याह- एवं निव्वदृइत्ताणं ति, तथैव निवर्त्य जीवप्रदेशेभ्यः शरीरकं पृथकृत्वेत्यर्थः, तत्र देशेनेलिकागतौ सर्वेण गेन्दुकगतौ, अथवा देशतः शरीरकं निवर्त्यात्मनः पादादिनिर्याणवान् सर्वतः सर्वाङ्गनिर्याणवानिति ।
[सू० १०९] दोहिं ठाणेहिं आता केवलिपन्नत्तं धम्मं लभेजा सवणताते, तंजहा-खतेण चेव उवसमेण चेव, एवं जाव मणपजवनाणं उप्पाडेजा, तंजहा-खतेण चेव उवसमेण चेव । ___ [टी०] अनन्तरं सर्वनिर्याणमुक्तम्, तच्च परम्परया धर्मश्रवणलाभादिषु, ते च यथा स्युस्तथा दर्शयन्नाह- दोहीत्यादि कण्ठ्यम्, नवरं खएण चेव त्ति ज्ञानावरणीयस्य दर्शनमोहनीयस्य च कर्मणः उदयप्राप्तस्य क्षयेण निर्जरणेन अनुदितस्य चोपशमेन विपाकाननुभवेन, क्षयोपशमेनेत्युक्तं भवति, यावत्करणात् ‘केवलं बोहिं बुज्झेज्जा, मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा, केवलं बंभचेरवासमावसेज्जा, केवलेणं संजमेणं संजमेज्जा, केवलेणं संवरेणं संवरेज्जा, केवलं आभिणिबोहियनाणमुप्पाडेज्जा'