________________
१०६
प्रकर्षकारणत्वात् तेषामिति, अथवा अत्यन्तमनर्थकारित्वाद्, उक्तं च
को दुक्खं पावेज्जा कस्स व सोक्खेहिं विम्हओ होज्जा ?। को व न लहेज्ज मोक्खं ? रागद्दोसा जइ न होज्जा ॥ [उपदेशमा० १२९ ] इति । उक्तस्थानद्वयबद्धपापकर्मणश्च यथोदीरण-वेदन-निर्जराः कुर्वन्ति देहिनस्तथा सूत्रत्रयेणाह– जीवेत्यादि गतार्थम्, नवरम् उदीरयन्ति अप्राप्तावसरं सदुदये प्रवेशयन्ति, अभ्युपगमेन अङ्गीकरणेन निर्वृत्ता तत्र वा भवा आभ्युपगमिकी, तया शिरोलोचतपश्चरणादिकया वेदनया पीडया, उपक्रमेण कर्मोदीरणकारणेन निर्वृत्ता तत्र वा भवा
औपक्रमिकी, तया ज्वरा-ऽतीसारादिजन्यया, एवमिति उक्तप्रकारत एव वेदयन्ति विपाकतोऽनुभवन्त्युदीरितं सदिति, निर्जरयन्ति प्रदेशेभ्यः शाटयन्तीति ।
[सू० १०८] दोहिं ठाणेहिं आता सरीरं फुसित्ताणं णिजाति, तंजहा-देसेण वि आता सरीरं फुसित्ताणं णिज्जाति, सव्वेण वि आया सरीरं फुसित्ताणं णिजाति, एवं फुरित्ताणं, एवं फुडित्ताणं, एवं संवदृइत्ताणं, एवं निव्वदृइत्ताणं।
[टी०] निर्जरणे च कर्मणो देशतः सर्वथा वा भवान्तरे सिद्धौ वा गच्छतः शरीरान्निर्याणं भवतीति सूत्रपञ्चकेन तदाह- दोहीत्यादि कण्ठ्यम्, नवरं द्वाभ्यां प्रकाराभ्यां देसेण वि त्ति देशेनापि कतिपयप्रदेशलक्षणेन केषाञ्चित् प्रदेशानामिलिकागत्योत्पादस्थानं गच्छता जीवेन शरीराद् बहिः क्षिप्तत्वात्, आत्मा जीवः शरीरं देहं स्पृष्ट्वा श्लिष्ट्वा निर्याति शरीरान्मरणकाले निःसरतीति, सव्वेण वि त्ति सर्वेण सर्वात्मना सर्वैर्जीवप्रदेशैः कन्दुकगत्योत्पादस्थानं गच्छता शरीराद् बहिः प्रदेशानामप्रक्षिप्तत्वादिति, अथवा देशेनापि देशतोऽपि, अपिशब्दः सर्वेणापीत्यपेक्षः, आत्मा, शरीरम्, कोऽर्थः ? शरीरदेश पादादिकं स्पृष्ट्वाऽवयवान्तरेभ्यः प्रदेशसंहारान्निति, स च संसारी, सर्वेणापि सर्वतयाऽपि, अपिर्देशेनापीत्यपेक्षः, सर्वमपि शरीरं स्पृष्ट्वा निर्यातीति भावः, स च सिद्धः, वक्ष्यति च- पायणिज्जाणा णिरएसु उववज्जंतीत्यादि यावत् सव्वंगणिज्जाणा सिद्धेसु [सू० ४६१] त्ति ।
आत्मना शरीरस्य स्पर्शने सति स्फुरणं भवतीत्यत उच्यते- एवमित्यादि, एवमिति दोहिं ठाणेहीत्याद्यभिलापसंसूचनार्थः, तत्र देशेनापि कियद्भिरप्यात्म