SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ यक्षरकाण्डे वाच्यलिङ्गाध्यायः। 'द्वतं विलीने शीघे चे व्यवदीर्णेऽप्यथो रथे । द्वीपिचर्मावृते द्वैपं द्वीपिनोऽवयवे तथा ॥ १२ ॥ विकारेऽप्यासमुद्रान्तद्वीपसम्बन्धिवस्तुनि । अन्यत्र मानुषात् तत्स्थाच्चाथ कश्चित् स्वतन्त्रधीः ॥ १३ ॥ ध्वस्तं ग्रासीकृते लुप्ते नयहीनेऽप्यवोचत । धुतं तु कम्पिते त्यक्ते धृतं त्यक्तेऽपि कम्पिते ॥ १४ ॥ न्यक्ष कृत्स्ने निकृष्टे च न्यूनमूनविगर्हयोः । प्राज्ञस्तु धीमज्ज्ञात्रोः स्यात् तत्रापि स्यात् क्रमाद् द्वयम् ॥ १५ ॥ स्यार्थे प्राज्ञा तथा प्राज्ञी पात्रशब्दस्तु वक्ष्यते । शोष्टरि त्रातरि पिये पिल्लः क्लिन्नेऽक्षिण तद्वति ॥ १६ ॥ भङ्गन्यं भाङ्गीनभव्यभङ्गसाध्वादिषु स्मृतम् । भाक्तस्तु भक्तसाधौ स्यात् तथा लाक्षणिकेऽपि च ॥ १७ ॥ भिन्नं विदारितेऽन्यस्मिन् मिश्रे चाथ महत्तरे । भूयः स्यादितरेऽप्येष पुनरर्थेऽपि सोऽव्ययम् ॥ १८ ॥ माष्यं तु हिंस्ये माषीणे माषसाधौ च तद्धिते । म्लिष्टं म्लानेऽप्यविस्पष्टवाक्ये मुग्धं तु नूतने ॥ १९ ॥ मूढे सौम्ये च मेध्यं तु वलाहकभवे तथा । मेघसाधौ च याप्यं तु यापनीये विगर्हिते ॥ २० ॥ रुशद् वर्णावशेषेण युक्ते वाक्येऽप्यमङ्गले । हिंसितर्यपि पूर्वत्र स्त्र्यर्थे स्याद् रुशतीति हि ॥ २१ ॥ हिंसितुः स्व्यर्थविषये रुशन्ती रुशतीति च । न्याय्यलब्धव्ययोर्लभ्यं लोलश्चलमतृप्णयोः ॥ २२ ॥ व्यग्रस्तु विगताग्रे च व्यापृताकुलयोरपि । वाच्यस्तु कुत्सितेऽधीने विहीने वदितव्यक ॥ २३ ॥ १. 'चाप्यपदी' क. ख. घ. पाठः, 'चाप्यवाणे' ङ. पाठः.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy