SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ यक्षरकाण्डे नपुंसकलिङ्गाध्यायः । ● पञ्चस्वेषु पदार्थेषु हेतुर्वररुचीरितः । प्रयोजके स्वतन्त्रस्य कर्तुरित्यपि शाब्दिकाः ॥ १४०॥ इति व्यक्षरकाण्डे पुल्लिङ्गाध्यायः । १. अथ व्यक्षरकाण्डे नपुंसकलिङ्गाध्यायः । अथ क्लीबेऽभिधानानि सर्वाणि कुमुद्रस्य हि । रजतेऽतिदिशन्त्यार्या रुधिरस्य तु कुङ्कुमे ॥ १ ॥ रूप्यस्याञ्जनभेदे स्युर्बदरस्य तु नागरे । अथशब्दो जलदे व्योममुस्तकयोरपि ॥ २ ॥ अभ्रकाह्वयधातावप्यस्त्रमायुधचापयोः । अघं तु व्यसने पापे दुःखेऽथ स्यादलध्वनिः ॥३॥ हरिताले वृश्चिकस्य पुच्छकण्टक एव च । अक्षि नेत्रे तथेक्ष्वादेः काण्डस्यावयवान्तरे ॥ ४ ॥ अम्बुच्छन्दोविशेषे स्यान्नवत्यक्षरलक्षिते । लग्नाच्चतुर्थे राशौ स्यादिति सांवत्सरा विदुः ॥ ५ ॥ बेरे सलिलेऽथ स्यादम्भो हीवेरतोययोः । द्व्यशीतिस्वरके छन्दस्यष्टाशीत्यक्षरे तथा ॥ ६ ॥ अम्भस इति तु द्यावापृथिव्योर्द्विवचन्तकम् । अर्णश्छन्दोविशेषेऽष्टसप्ततिस्वरके जले ॥ ७ ॥ अनोsने शकटे सान्त ओदने सलिलेऽपि च । अर्शो दुर्नामनि व्याधिमात्रेऽप्यङ्कस्तु संयुगे ॥ ८ ॥ स्वाङ्गभेदेऽपि चाब्जस्तु रूपे कश्चित् सरोरुहे । अस्तु रूपेऽपत्ये च क्रियायामप्यथो अयः ॥ ९ ॥ 'घ्न' क. ख. घ. पाठः. ३३
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy