SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ मानार्णवसंक्षेप मुखभूषणमित्येतत् स्यालोहे वसंज्ञके। मुखस्य भूषणे चाथ रसकेसरमित्यदः ॥ १८॥ वेधके वकुले नागपुष्पेऽथ वरचन्दनम् । देवदारुणि कालेयेऽप्यथो (या)तिभयप्रदा ॥ १९ ॥ $+ + + + + + + स्याद् चीराशंसनमित्यदः । आशंसने च वीरस्य समुदरणवाक् पुनः ॥ २० ॥ वान्तानेऽप्युभये चेस्थमध्यायो गतवानयम् ॥ २० ॥ इति पञ्चाक्षरकाण्डे नपुंसकलिङ्गाध्यायः । अथ पश्चाक्षरकाण्डे वाच्यलिङ्गाध्यायः । अथाभिधेयलिना ये शब्दाः पञ्चाक्षराः स्मृताः । तेषां समेपामध्यायः स्पष्टं प्रस्तूयतेऽधुना ॥१॥ अनेलमूकः स्यादन्धे वक्तुं श्रोतुमशिक्षिते ।। श्रुतिवर्जित इत्येके शठे चाथीदनादिपु ॥ २ ॥ सुसंस्कृतेषु पर्याप्ते प्रमितप्राप्तयोरपि । उपसम्पन्नशब्दोऽयं तथाथोदयनीयवाक् ॥ ३ ॥ यागान्तकर्मभेदेऽपि तद्योगादहरादिपु । कथामसङ्गस्तु विषवैद्ये वाताधिकेऽपि च ॥ ४ ॥ अथ प्रवचनीयं स्यात् प्रवक्तव्ये प्रवक्तरि । स्यात् पर्यवसितं लब्धे विरतिं प्राप्तवत्यपि ॥ ५ ॥ १. 'द' क. ग. पाठः. २. 'त' ग. पाठ:. - 'तस्यामाजेः पृथिव्याम्' इति स्यात् । 'वीराशंसनमाजे ' (पृ. १२१. गो. २०६) इति पैजयन्ती।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy