SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ - ध्यक्षरकाण्डे नानालिङ्गाध्यायः । उलूपीसंज्ञके चापि जलजन्तौ पुमान् पुनः । द्रुमभेदे स्त्रियां तु स्याच्छिशुका +++++ ॥ १८३० ॥ शिथिलं त्वदृढे त्रिस्याच्छिथिली तु स्त्रियामियम् । बम्रिकासदृशे पिङ्गवर्णे कीटान्तरे भवेत् ॥ १८३१ ॥ अयोमले तु शिङ्खाणं, कीबलिङ्गं प्रतीयताम् । नासाले तु स पुमान् शिखण्डस्तु पुमानयम् || १८३२ ॥ मयूरपिच्छे स्त्री तु स्याच्छिलायां हि शिखण्डयसौ । शिखण्डी तु द्वयोर्ज्ञेयो मयूरेऽपि च कुकुटे ॥ १८३३ ॥ शिखण्डिनी तु स्त्री यूथ्यां गुजायां च पुमान् पुनः । कलायसंज्ञे धान्येऽपि रमसः प्रोक्तवानमुम् ।। १८३४ ॥ ऋषिभेदे कचिच्चापि पुरुषे भारतश्रुते । शिखण्डवति तु त्रि स्याच्छिखरी तु पुमान् गिरौ ॥ १८३५ ॥ अपामार्गसमाख्ये च स्तम्बे रभस उक्तवान् । तरौ च स्त्री तु विज्ञेया छन्दस्यत्यष्टिसंज्ञके ॥ १८३६ ॥ वृत्तभेदे शिखरिणी मार्जितासंज्ञके तथा । संस्कृते तक्रभेदे स्याच्छीतकस्त्वलसे त्रिपु || १८३७ ॥ ज्वालाभेदे शीतिका स्त्री शीकरस्तु पुमानयम् । * वाताद्य (स्ते) स्नेह (कणे) हस्त्यायुर्वेदिनः पुनः ॥ १८३८ ॥ हस्तिहस्त समुद्भूतदानवारिण्यधीयते । गुणे च शवले शीतगुणे च स्यात् त्रिषु त्वयम् ॥ १८६९ ।। - गुणयोरेतयोरेकयुक्ते स्याच्छीतलस्तु ना । चम्पकाख्ये पुष्पतरौ तथा शीतगुणेत्रि तु ॥ १८४० ॥ तद्वत्यथ स्त्रियां रक्तवर्णायां गंवि शीतला । श्रीफलस्तु पुमान् बिल्वे श्रीफली तु स्त्रियामियम् ॥ १८४१ ॥ २०७ 'शीकरं सरले वानसृताम्बुकणयोः पुमान्' इति मेदिनी, 'अथ शीकरः । वातास्तजलेऽम्बुकणे' इति हेमचन्द्रः ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy