SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ नानार्थार्णवसंक्षेपे धीस्तु कर्मणि बुद्धौ च धृस्तु यानमुखेऽगुलौ । भारे विकृतगीतौ च गायत्राहयसामनि ॥ ५५ ॥ साम्नां द्रष्टषु चैकेषु नौर्वाक्कालतरिष्वथ । पूर्वहे नगरे बुद्धौ भास्तु रश्मौ रुचावपि ॥ ५६ ॥ भूर्भूम्यां स्थानमात्रे च सौराष्ट्यां व्योमदेहयोः । मा पार्वत्यां च लक्ष्म्यां च निर्लिङ्गोऽसौ निवारणे ॥ ५७ ॥ मृन्मृत्तिकायां भैषज्यभेदे तुवरिकाहये । मृच्छब्दो जलवाच्यस्ति धान्तदान्तत्वसंशयात् ॥ ५८ ॥ समानायसमानातो निरूप्यात्र निवेश्यताम् । रुक् प्रभाकान्तिवाञ्छा रुक् तु स्याद् व्याधितोदयोः ॥ ५९ ॥ वाग् वाण्यां गौणवृत्त्या तु शब्दे वक्त्रे चै केचन । श्रीरिन्दिरायां शोभायां स्यात् संपत्तिलवङ्गयोः ॥ ६० ॥ प्रथमायां विभक्तौ च व्याचष्टे भगवानमूम् । स्त्री प्रियङ्ग्वाहये वृक्षे वनीवनितयोरपि ॥ ६१ ॥ लनाच्च सप्तमे राशौ लिङ्गभेदे च शब्दगे । उक् सुवे शोषणे गत्यामित्यध्यायः समाप्तवान् ।। ६२ ॥ इत्येकाक्षरकाण्डे स्त्रीलिङ्गाध्यायः । अथैकाक्षरकाण्डे पुल्लिङ्गाध्यायः । अथैकाक्षरपुल्लिङ्गा अकारो विष्णुवेधसोः ।। कण्ठस्थानस्वरे चाथ स्यादुकारो हरे हरौ ॥ १ ॥ ओष्ठस्थानस्वरे चाथ ग्लौर्वपुर्लानिचन्द्रयोः । आकाशे दिवसे च द्युः पुमानात्मनि पौरुषे ॥ २ ॥ १. 'च' ख. पाठः. २. 'तु' ख. पाठः. ३. 'मु' क. घ. पाठः. - 'दु क्लीबमहि गगने च' इति तु मेदिनी । 'आकाशे दिवसे च दु:' (पु. २७० को. ६.) इति वैजयन्ती। पूरुषे' इति स्यात् ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy