SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ टीका : तुम्बवनसन्निवेशात् निर्गतं पितृसकाशं प्राप्तं षाण्मासिकं षट्सु यतं मात्रा समन्वितं सहितं वज्रस्वामिनं वन्दे ॥ ॥ यो बालो गुह्यकैर्देवविशेषैः वर्षान्ते भोजनेन निमन्त्रितो विनीतविनेयो विनीतशिष्यो द्रव्यक्षेत्रकालभावैर्देवपिण्डमकल्प्यं विभाव्य नेच्छति न गृह्णाति तं वज्रऋषिं नमस्यामि ॥ ॥ उज्जयिन्यां यो जृम्भकामरैः परीक्ष्य स्तुत्या महितः पूजितस्तमक्षीणमहानसिकं अक्षीणमहानसलब्धिसंपन्नं सिंहगिरिणा प्रशंसितं वन्दे ॥ ॥ यस्य भगवतो वाचकत्वे वाचनाचार्यपदव्या अनुज्ञायां दशपुरे नगरे देवैः महिमा कृतस्तं पदानुसारिलब्धिसंपन्नं वज्रस्वामिनं नमस्यामि ॥ ॥ यो रुक्मिण्या कन्यया धनेन कोटिशतलक्षणेन च यौवने गृहपतिना धनावह श्रेष्ठिना निमन्त्रितः कुसुमपुरनाम्नि नगरे तं वज्रऋषिं नमस्यामि ॥ ॥ येन वज्रस्वामिना महापरिज्ञाध्ययनात् आकाशगामिनी विद्या उद्धृता यश्च श्रुतधराणामपश्चिमः चरमस्तं आर्यवज्रधरं वन्दामि श्रुतधरा दशपूर्विणः ॥ ॥ वज्रस्वामी कथयति च अनया विद्यया मानुषोत्तरं पर्वतं गत्वा जम्बूद्वीपं आहिण्ड्यात् जम्बूद्वीपाद् आमानुषोत्तरं भ्रमणे शक्तिरस्ति । एष मे विद्याया विषयः ॥ ॥ आह च मया इमा विद्या धार्या न तु दातव्या यतोऽतः परं अन्ये मनुष्याश्च अल्पर्द्धयोऽल्पसत्त्वा भविष्यन्ति ॥ ॥ माहेश्वर्याः पुर्या हुताशनस्य देवस्य गृहात् उपवनात् येन महानुभावेन गगनतलमवतीर्य पुष्पाणि लात्वा जिनशासनस्य माहात्म्यं पर्युषणापर्वणि चक्रे ॥४७-५५॥ ગાથાર્થ : તુંબવન સંનિવેશમાંથી નીકળીને છ મહિનાની વયે માતાની સાથે પિતાની પાસે ગયેલા વજસ્વામીને હું વંદું છું. બાલ્યવયમાં પણ વિનીત એવા તેમને વર્ષાઋતુના અંતમાં ગુપ્તવેશે દેવોએ બોલાવ્યા. ત્યાં ગયા પછી તે પદાર્થને દ્રવ્યક્ષેત્રકાળ ભાવથી દેવપિંડ જાણીને તે અકલ્પ્ય હોવાથી તેને ગ્રહણ ન કર્યો તે વજઋષિને હું નમું છું. ૯૪ ॥ श्रीऋषिमण्डल
SR No.032276
Book TitleRushimandal Stav Prakaranam
Original Sutra AuthorN/A
AuthorVijaynayvardhansuri
PublisherBharatvarshiya Jinshasan Seva Samiti
Publication Year2014
Total Pages114
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy