SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ [४] श्रीअभिनन्दनस्तवनम् । सोऽभिनन्दननाथ ! त्वं विजयस्व दयाऽमदः । यस्य ते हृद्यमेयाऽस्था द् विजयस्वदयाऽमदः ॥१॥ जनताऽऽपन्नदीतारतरणे! भवतारण ! । मोहारेरावि कान्त्याऽस्ततरणे ! भवता रणः ॥२॥ श्रीस्ते न हि मुदे कस्य प्रभो ! विश्वाभिनन्दन !। रक्ष मां भवतो भास्वत्प्रभो विश्वाभिनन्दनः ॥३॥ पाहि ताः शोषिताघौघ ! नीरागततमायाः। त्वं प्रजा न हि तत्याज नीरागततमादया ॥४॥ [४] १ अमदः रोगनाशकः ( अम-रोगं दाति=छिनत्ति )। अमेया= प्रमाणरहिता-पुष्कला । विजयस्वदय हे विजयधनदायक। अ मदः मदरहितः। २ जनताऽऽपन्नदीतारतरणे हे लोकविपत्तिनदीतरणनौकातुल्य [तरणिः-नौका] । आवि=जितः। कान्त्याऽस्ततरणे हे प्रभया पराभूतसूर्य [ तरणिः सूर्यः]। रणः संग्रामः । (आवि=अव् धातोः कर्मणि रूपम् ) । अनुप्रासे विसर्गानुस्वारादयो न बाधकाः। अत उत्तरार्धे विसर्ग आवश्यकः । ३ मुदे-हर्षाय । विश्वाभिनन्दन हे जगदानन्ददायक। भास्वत्प्रभः= देदीप्यमानकान्तियुतः। ४ शोषिताघौघ=हे शोषितपापसमुदाय । नीरागततमादयाः रागभा वेन विस्तृतश्रीदयाः। नीरागततं-रागरहित्वेन विस्तृतम् (त्वाम् )। आदया ग्रहणेन [आदान आदा] ।
SR No.032211
Book TitleSanskrit Prachin Stavan Sandoh
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1939
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy