SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १५ अनवद्या महाविद्याः सम्पदो विपदोज्झिताः । सौभाग्यं सह भाग्येन भाक्तिकः संश्रयेत् तव ॥५॥ [३] श्रीशम्भवस्तवनम् । श्रीशम्भवजिनाधीशं योगीन्द्रं नौमि सादरम् । जगत्पूज्यं मुदा हेलिमुल्लसन् महसाऽदरम् ॥ १ ॥ निस्तीर्ण रौद्रसंसारदावपावक ! शम्भव ! | सेनामातः सदा तात ! सद्भावरावश्यम्भव ! ॥ २॥ त्वं जीयाः सर्वदाऽनर्घ्यगुण कल्पद्रनन्दनः । जितारिगण ! लोकेश ! जितारिनृपनन्दनः ॥ ३ ॥ यं नत्वा लेभिरे शैवसम्पदं मक्षु देहिनः । स त्वं सत्त्वं क्षयं कर्तु मोहराजस्य देहि नः ॥ ४ ॥ तत्याज शासनं जातु तावकं पावकं न यः । तं शाश्वत सुखावासं कैवल्यभविकं नय ॥ ५॥ [ ३ ] १ हेलि = सूर्यम् । महसा मुदा उल्लसन् = महता हर्षेण उल्लसन् । अदरं=अभयम् । सेनादेवीतनय | सद्भावर= २ दावपावक=दावानल | सेनामातः = हे हे सम्यक्प्रभाश्रेष्ठ । अवश्यंभव = हे अपरतन्त्रं=हे स्वतन्त्र । ३ अनध्यगुणकल्पद्रुनन्दनः = अमूल्यगुणकल्पवृक्षनन्दनवनः । जिता रिंगण = हे जितवैरिसमुदाय । जितारिनृपनन्दनः = जितारिराजपुत्रः । ४ मङ्क्षु शीघ्रम् । सत्त्वं=बलम् । ५ जातु = कदाचित् । तावकं =तव । पावकं = पुनितम् |
SR No.032211
Book TitleSanskrit Prachin Stavan Sandoh
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1939
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy