SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ दीधिति:१६ तेन न 'धूमावयवे संयोगेन, न वा समवायेन पर्वते वह्निधीः, -तथैवावगतव्यापकताघटकसम्बन्धेन व्यापकस्याभावग्रहे गृहीतव्याप्यताघटकसम्बन्धेन व्याप्यस्याभावः सिध्यतीति, . कथमन्यथा 'समवायेन वह्निविरहिणि महानसे संयोगेन, संयोगेन वा वह्निविरहिणि स्वावयवे, - धूमः समवायेन न निवर्तते, - निवर्तते च, - संयोगेन वह्निविरहिणि स्वावयवे संयोगेनेति' नियम उपपद्यते ? तथा च तादात्म्यसम्बन्धेन जलादीनां व्याप्यत्वग्रहाद्वयापकनिवृत्त्या, - तादात्म्येनैव तेषामभावः सिध्यति, स एव चान्योन्याभावः, इत्थमेव च 'तादात्म्यावृक्षशिंशपयोर्व्याप्तिनिश्चय' इति सङ्गच्छते ॥१६॥ mmmmmmmmmmmmmmmmmmmmmmmmmmmmmm000000000mmmmmmmmmmmmmmm @mmmmmmmmmmmmmmmmmm ___ जागदीशी - ननु समवायेन जलादौ पृथिवीत्वाभावव्याप्यत्वपरतयैव तद्ग्रन्थसङ्गतिरित्याशङ्कय,-पृथिव्यादौ जलाभिदसाधनार्थं तदुपन्यासो न स्यात्, व्यापकताघटकसम्बन्धावच्छिन्नव्यापका-भावेन व्याप्यताघटकसम्बन्धावच्छिन्न-व्याप्याभावस्यैव । सिद्धरित्यन्वयिदृष्टान्तपूर्वकं परिहरति, - यथा चेति । ommmitmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm चन्द्रशेखरीया : ननु 'पृथ्वीत्वाभाववान् जलाद्' इत्यत्र न तादात्म्येन जलं हेतुरपि तु समवायेनैव जलं हेतुः, तावतैव लक्षणसमन्वयसंभवात् । यत्र समवायेन जलं तत्र जलावयवेषु स्वरूपेण पृथ्वीत्वाभावः वर्तते एव । तथा च न जलात्मको धर्मी तादात्म्येन पृथ्वीत्वाभावरूपस्वधर्मव्याप्यो भवति । अतो न तं दृष्टान्तीकृत्य धर्मिणस्तादात्म्येन धर्मव्याप्यत्वं वक्तुमुचितमिति चेत् न, व्यतिरेकिग्रन्थगतमिदमनुमानं शास्त्रकारैः पृथिव्यां जलभेदसाधनार्थमेवोक्तम् । यतः व्यापकतावच्छेदक-सम्बन्धावच्छिन्नव्यापकस्य यत्राभावः, तत्र व्याप्यतावच्छेदकसम्बन्धावच्छिन्नव्याप्यस्याभावो भवतीति नियमः । तथा चात्रानुमाने व्यतिरेकव्याप्तिः । “यत्र स्वरूपेण पृथ्वीत्वाभावस्याभावः तत्र तादात्म्येन जलस्याभावः जलभेदरूपः" इत्याकारिका अस्ति, अनया च । पृथिव्यां जलभेदः सिद्ध्यति । यदि च समवायेन जलं साध्यमुच्येत, तदा तु पृथिव्यां समवायेनैव जलाभावः सिद्ध्यति, न तु तादात्म्येन जलस्याभावो जलभेदरूपः । तथा च अनेनानुमानेन पृथिव्यां जलभेदसाधनासंभवात्, इदमनुमानं पृथिव्यां जलभेदसाधनाय क्रियमाणं निरर्थकमेव भवति । तेन तत्सिद्धिअसंभवात् । अतोऽत्र न समवायेन जलं हेतुरपि तु तादात्म्येनैव मन्तव्यः । अमुमेवार्थ स्पष्टयति दीधितिकारः 'यथा च यादृशेन सम्बन्धेन' इत्यादिना । अयमर्थः । हेतु: येन સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૫૩
SR No.032153
Book TitleSiddhant Lakshan Part 02
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages214
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy