SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ૧૯૬ પણ વ્યભિચારી કહેવાય એવી જ રીતે વિઘ્ન, સાધ્ય ધૂમના વ્યાપક આર્ટ્રેન્થનસંયોગનો વ્યભિચારી હોવાથી સાધ્ય ધૂમનો પણ વ્યભિચારી છે. (ઘટત્વમાં આર્દ્રધનસંયોગનો વ્યભિચાર છે. કારણ કે આર્દ્રધનસંયોગના અભાવવત્ જે ઘટાદિ છે તેમાં ઘટત્વ છે.) एवं प्रकारेण......... प्रतिबन्धः फलम् ॥ २॥ रीते वाहीद्वारा प्रयुक्त 'पर्वतो धूमवान् वह्निमत्त्वात्' २॥ अनुमानमां के वहूिन हेतु छे, तेने पक्ष जनावीने वह्निमां साध्य घूमना વ્યભિચારને જણાવવા દ્વારા વાદીના હેતુને દોષયુક્ત સિદ્ધ કરવો એ જ ઉપાધિનું ફળ છે. અને આ રીતે ઉપાધિનું જ્ઞાન થવાને કારણે વિહ્નમાં ‘માભાવવદ્ વૃત્તિત્વ’ સ્વરૂપ ધૂમનો વ્યભિચાર ગ્રહણ થવાથી ‘ધૂમાભાવવદ્ અવૃત્તિત્વ’ = ‘સાધ્યાભાવવદવૃત્તિત્વ’ સ્વરૂપ વ્યાપ્તિજ્ઞાન પ્રતિબંધિત થઈ જશે. આ ઉપાધિનું પરંપરયા ફળ છે. ( प. ) व्याप्यत्वासिद्धं निरूपयति-सोपाधिक इति । ननु कोऽयमुपाधिरत आहसाध्येति । साधनाव्यापक उपाधिरित्युक्ते शब्दोऽनित्यः कृतकत्वादित्यत्र सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्रहणार्हत्वमप्युपाधिः स्यात्तदर्थं साध्यव्यापकत्वमुक्तम् । तावत्युक्ते सामान्यवत्त्वादिनाऽनित्यत्वसाधने कृतकत्वमुपाधिः स्यात्तदर्थं साधनाव्यापकत्वमुक्तम्। उपाधिभेदमादायासंभववारणाय व्यापकत्वशरीरेऽपि 'अत्यन्त' पदमादेयम् । साधनभेदमादाय साधनस्योपाधित्ववारणायाव्यापकशरीरेऽ' प्यत्यन्त 'पदमावश्यकं देयम् । सोऽयमुपाधिस्त्रिविधिः केवलसाध्यव्यापकः पक्षधर्मावच्छिन्नसाध्यव्यापकः साधनावच्छिन्नसाध्यव्यापकश्चेति । तत्राद्य उपदर्शितः । एवं क्रत्वन्तर्वर्तिनी हिंसा अधर्मजनिका हिंसात्वात्, क्रतुबाह्यहिंसावदित्यत्र निषिद्धत्वमुपाधिः । तस्य यत्राधर्मजनकत्वं तत्र निषिद्धत्वमिति साध्यव्यापकता । यत्र हिंसात्वं तत्र न निषिद्धत्वमिति निषिद्धत्वमुपाधिः साधनाव्यापकः । क्रतुहिंसायां निषिद्धत्वस्याभावात् । 'न हिंस्यात् सर्वा भूतानि ' इति सामान्यवाक्यतः 'पशुना यजेत्' इत्यादिविशेषवाक्यस्य बलीयस्त्वात् । अतो हिंसात्वं नाधर्मजनकत्वे प्रयोजकमपि तु निषिद्धत्वमेवेत्यादिकमपि द्रष्टव्यम् । द्वितीयो यथा-वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोद्भूतरूपवत्त्वमुपाधिः । तस्य यत्र प्रत्यक्षत्वं तत्रोद्भूतरूपवत्त्वमिति न केवलसाध्यव्यापकत्वं, रूपे व्यभिचारात् । किंतु द्रव्यत्वलक्षणो यः पक्षधर्मस्तदवच्छिन्नबहिः प्रत्यक्षत्वं यत्र तत्रोद्भूतरूपवत्त्वमिति पक्षधर्मावच्छिन्नसाध्यव्यापकत्वमेव । आत्मनि व्यभिचारवारणाय 'बहि: ' पदम् । यत्र प्रत्यक्षस्पर्शाश्रयत्वं तत्र नोद्भूतरूपवत्त्वमिति साधनाव्यापकत्वं च वायावुद्भूतरूपविरहात् । तृतीयो यथा - ध्वंसो विनाशी जन्यत्वादित्यत्र भावत्वमुपाधिः, तस्य यत्र विनाशित्वं तत्र भावत्वमिति न केवलसाध्यव्यापकत्वं प्रागभावे भावत्वविरहात् । किंतु जन्यत्वरूपसाधनावच्छिन्नविनाशित्वं यत्र तत्र भावत्वमिति साधनावच्छिन्नसाध्यव्यापकत्वमेव । यत्र जन्यत्वं तत्र न भावत्वमिति साधनाव्यापकत्वं च ध्वंसे भावत्वविरहात् । -
SR No.032148
Book TitleTarksangraha
Original Sutra AuthorN/A
AuthorSantoshanand Shastri, Shrutvarshashreeji, Paramvarshashreeji
PublisherUmra S M P Jain Sangh
Publication Year2016
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy