________________
३४
कर्पूरमञ्जरी
विदूषकःण्हाणावमुक्काहरणुच्चआए तरंगभंगक्खदमंडणाए ।
ओलंसुउल्लासिथणुल्लआए सुंदेरसधस्स मिमीअ दिट्ठी॥२८॥ नायिका-(सर्वानवलोक्य । खगतम् ।) एसो महाराओ को वि इमिणा गंभीरमहुरेण सोहासमुदाएण जाणीअदि। एसा वि एदस्स महादेवी लक्खीअदि । अद्धणारीसरस्स वामद्धे विअ अकहिआ वि गोरी मुणीजदि। एसो को वि जोईसरो । एस उण परिअणो । (विचिन्त्य ।) ता किं ति एदस्स महिलासहिदस्स वि दिट्ठी में बहु मण्णेदि । ( इति व्यस्रं वीक्षते।) लगतीत्यर्थः । अत्र प्रलयाख्यः सात्त्विको भावः । स यथा रसकलिकायाम्'प्रलयो रागदुःखादेरिन्द्रियास्तमयो मतः ।' इति। स एव चानुभावः। चिन्तादयो व्यभिचारिणः यौवनादय आलम्बनगुणा विभावाः । अभिलाषाख्या शृङ्गारावस्था। विदूषकः
स्नानावमुक्ताभरणोच्चयायास्तरङ्गभगक्षतमण्डनायाः। ___ आद्रांशुकोल्लासितनुलतायाः सौन्दर्यसर्वस्वमस्या दृष्टिः ॥
दृष्टिरत्र तटस्थः । अन्यत्पूर्ववत् । अत्र रूपमुक्तम् । तद्यथा सुधाकरे–'अङ्गान्यभूषितान्येव प्रक्षेपायैर्विभूषणैः । येन भूषितवद्भान्ति तद्रूपमिह कथ्यते ॥' इति । मृदवं नामाङ्गमयुक्तम्-'दोषा गुणा गुणा दोषा यत्र स्युर्मेदवं हि तत् ।' इति तल्लक्षणम् । 'सुश्लिष्टसृष्टिबन्धो यस्तत्सौन्दर्यमितीर्यते'। इति सौन्दर्यलक्षणम् ।
नायिका-एसो इति ।
एष महाराजः कोऽप्यनेन गम्भीरमधुरेण शोभासमुदायेन ज्ञायते । एषाप्यस्य महादेवी लक्ष्यते । अर्धनारीश्वरस्य वामार्धेवाकथितापि गौरी । एषः कोऽपि योगीश्वरः । एष पुनः परिजनः । तत्किमित्येतस्य महिलासहितस्यापि दृष्टिमाँ बहु मन्यते ?
त्र्यसमिति क्रियाविशेषणम् । अनेन कातराख्यं दर्शनमुक्तम् । 'सभयान्वेषणपरं यत्तत्कातरमुच्यते ।' इति तल्लक्षणम् ।