________________
२८
कर्पूरमञ्जरी देवी-(समन्तादवलोक्य।) गाअंतगोवअवहूपअखिदासु
दोलासु विब्भमवदीसु 'णिविट्टदिट्टी। जं जादि खंजिदतुरंगरहो दिणेसो तेण व होति दिअहा अइदीहदीहा ॥ २१॥
(प्रविश्यापटीक्षेपेण ।) विदूषकः-आसणं आसणं । देवी
गायद्गोपवधूपदप्रेलितासु __ दोलासु विभ्रमवतीषु निवण्णदृष्टिः । यद्याति खञ्जिततुरङ्गरथो दिनेश
- स्तेनैव भवन्ति दिवसा अतिदीर्घदीर्घाः ॥ पदैश्चरणैः । प्रेलितास्वान्दोलितासु । गोष्ठीभिर्विनातिदीर्घा दिवसा आलस्यमावहन्तीत्यानीयतां कपिञ्जलब्राह्मण इति ध्वन्यते, तेन प्रकृतसंगतिः । अत्र हेत्वतिशयोक्तिपर्यायोक्त्युत्प्रेक्षाः । अतिशयोक्तिपर्यायोक्ती दण्डिनो-(का. २०२१४) 'विवक्षा या विशेषस्य लोकसीमातिवर्तिनी । असावतिशयोक्तिः स्यादलंकारोत्तमा यथा ॥' इति । 'अर्थमिष्टमनाख्याय साक्षात्तस्यैव सिद्धये । यत्प्रकारान्तराख्यानं पर्यायोक्तिस्तदिष्यते ॥' (का. २।२९५) इति ।
प्रविश्येति । अपटी जवनिका । विदूषकःआसनमासनम् । दीयतामिति शेषः।
1 'णिसण्ण' इति टीकानुगुणः पाठः ।