SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ कर्पूरमञ्जरी विदूषकः - कथं पंजरंगदा सारि व कुरुकुराअंती चिट्ठसि ? ण किं पि जाणासि । ता पिअवअस्सस्स देवी पुरदो पढिस्सं । जदो ण कत्थूरिआ कुग्गामे वणे वा विक्किणीअदि, णेदं सुवण्णं कसवट्टिभं विणा कसी अदि । २० राजा - पिअवअस्स ! ता पढ । सुणीअदु । ( विदूषकः पठति । ) फुल्लुक्करं कलमकूरसमं वदंति जे सिंधुवारविडवा मह वल्लहा ते । जे गालिअस्स महिसीदहिणो सरिच्छा ते किं च मुद्धविअइल्लपसूणपुंजा ॥ १९ ॥ विदूषकः त्वं पुनः पञ्जरगता सारिकेव कुरुकुरायमाणा तिष्ठसि ? न किमपि जानासि । तत्प्रियवयस्यस्य देव्याः पुरतः पठिष्यामि । यतो न कस्तूरिका कुग्रामे वने वा विक्रीयते, न सुवर्ण कषपट्टिकां विना कष्यते । ईदृशकवित्वाश्रयणायोग्याया अज्ञायास्तव सविधे न पठिष्यामीति भावः । राजा प्रियवयस्य ! तत्पठ । श्रूयताम् । अस्माभिरिति शेषः । फुल्ल इति । पुष्पोत्करं कलमकूरसमं वहन्ति ये सिन्दुवारविटपा मम वल्लभास्ते । ये गालितस्य महिषीदनः सदृक्षास्ते किं च मुग्धविचकिलप्रसूनपुञ्जः ॥ है कूर ओदनः । विचकिलास्तरुमेदाः । 'मम वल्लभा' इत्यनेन स्वस्य कामकलाकुशलत्वं व्यङ्ग्यम् ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy