SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ बालभारतम् अस्मिन्महासदसि कौरवपाण्डवीये क्षोभं गते द्रुपदजाचिकुराञ्चनाभिः। दुर्योधनेन भृकुटी कुटिलीकृता च जाताश्च भूमिपतयो लिखिता इवैते ॥ ४९ ॥ (सरमसं युधिष्ठिरमुपसृत्य ।) आर्य युधिष्ठिर ! प्रतिष्ठख वनवासाय । द्यूतहारितमनुष्ठीयताम् । (सर्वे समुत्तिष्ठन्ति ।) द्रौपदी-रे रे दुर्योधन! एष मे कचकर्षणापरिभवः आमुक्तबन्धक्रम स्तत्सत्यमेव चश्चरीकरमणीयाकेशपाशच्छटा नखाग्राडशकोटिपाटितमहादुःशासनोरःस्थली-। रक्तोल्लेखिकरेण निश्चितमिदं भीमेन या बध्यते ॥ ५० ॥ भीमः-रे रे दुर्योधन ! भीमसेनस्य शृणु प्रतिज्ञाम्,येनेयं याज्ञसेनी नृपसदसि हठात्केशहस्ते गृहीता • यश्चास्याः कोटवीत्वं बत विदधदितो वाससां राशिकारः। सोऽहं तेनैव रोषारुणनयनपुटः पाणिनोत्पाटितेन त्वां हन्ता हन्त वक्षस्तटभुवि रटतो दुष्टदुःशासनस्य ॥ ५१॥ अपि च रे रे दुर्योधन! नखक्रकचपाठनत्रुटितकीकसाद्वक्षसः शिरासरणिभिर्मेधे रुधिरमुत्फलत्फेनिलम् । महाञ्जलिमयं रुषा हृदि निवेश्य दौःशासने युधिष्ठिरसहोदरः शृणु वृकोदरः पास्यति ॥ ५२॥ किं चैकस्मिन्नपराद्धेऽपि तत्सहचारिणोऽप्यपराद्धारः ? ततश्च, १. इयमपि प्राकृतच्छाया.
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy