SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः द्यूतं न युष्मदुचितं ननु चिन्त्यतां च "कैः क्षत्रियैर्वसुमती पणिता पुराणैः १ ॥ २४ ॥ युधिष्ठिरः - भोः सभासदः ! कथं किल राजसूययज्वा प्रतिज्ञातमर्थं कदर्थयति ? दुर्योधनः- हंहो सभ्याः ! अक्षधर्मा अपि न निषिध्यन्ते । - ( उभौ क्रीडतः । ) शकुनिः — जितं जितं महाराजदुर्योधनेन । दुर्योधनः – स्वयमहमस्य राज्यार्धस्याधिष्ठाता । शकुनिः - अपरः पणः क्रियताम् । युधिष्ठिरः किं नामावशिष्टं यत्पणीक्रियते ? शकुनिः - किं नामापहारितं शरीरे तिष्ठति ? शरीरधना हि राजानः । युधिष्ठिरः - यद्येवम्, - निर्यान्ति यस्य वदनाद्वितथा न वाचो यो राजसूयविधि निर्धुतपापपङ्कः । सोढा न चानुजमहाविरहस्य योऽस्मि - न्सोऽयं स्वयं तव पणः प्रथमः पृथासूः ॥ २५ ॥ भीमः - (स्वगतम् । ) कथमात्मापि पणीकृतः ? अहो सत्यसंधता आर्ययुधिष्ठिरस्य । ( प्रकाशम्) भवतस्तु कः पणः ! दुर्योधनः हेलान मन्नृपकिरीट विटङ्ककोटिकारिरत्नचितकाञ्चनपादपीठः । वैतालिकैः स्तुतसमस्तजयोत्सव श्रीः सोऽयं स्वयं प्रतिपणस्तव कौरवेन्द्रः ॥ २६॥ २९ ( उभौ क्रीडतः । ) शकुनिः - जितं जितं महाराजदुर्योधनेन ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy