SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽ सुनन्दा-धर्मनन्दनो यदि पुनर्जयन्नस्ति सुरेखाप्रभृतीनां तदहमप्यधिष्ठात्री आसिष्ये । शकुनि:-अपरः पणः क्रियताम् । युधिष्ठिरःनिरर्गलविनिर्गलहुलगुलाकरालैर्गलै- रमी तडिति ताडितोडुमरडिण्डिमोड्डामराः । मदाचमनचञ्चरप्रचुरचञ्चरीकोच्चयाः पणः परिणतिक्षणक्षततटान्तरा दन्तिनः ॥ १९ ॥ भीमा-भवतस्तु कः पणः ? - (दुर्योधनस्तदेव पठति । उभौ क्रीडतः ।) शकुनि:-जिता दन्तिनः । दुर्योधनः-(नेपथ्यं प्रति ) दुःशासन ! द्यूतदन्तिनां प्रणेता त्वं भव । (नेपथ्ये।) यदादिशत्यार्यदुर्योधनः । शकुनिः-अपरः पणः क्रियताम् । युधिष्ठिरःझणज्झणितकिङ्किणीमुखरकंधरासंधिभिः र्युतास्तरुणतित्तिरिच्छदमनोहरैर्वाजिभिः । द्रुणाङ्कघनपट्टिशत्रिशिखखगिनः स्तम्भिनो रथाः प्रचलकाञ्चनध्वजमहापताकाः पणः ॥ २०॥ . (उभौ क्रीडतः ।) शकुनिः-हारिता रथाः । दुर्योधनः-(नेपथ्यं प्रति । ) सखे अङ्गराज! त्वं रथानां नेता भव ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy