SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ बालभारतम् वन्दित्वैतमुदग्रभार्गवशरश्रेणीव्रणालंकृतं भीष्मं सुभ्र! ततः स्वयंवरनृपाः प्रत्येकमालोकय ॥ ३५॥ सखी-द्रुपदनन्दिनि ! गङ्गातनयः शान्तनव एषः । तद्गुरुत्वेन प्रणमतु। द्रौपदी-यः किल कुमारब्रह्मचारी । नमो नमः पाण्डवकौरवपितामहाय । (सर्वे परिक्रामितकेन ।) बन्दी-(खगतम् ।) अयं भगवतो भीष्मादननगरिमा द्रोणाचार्यः। (प्रकाशं द्रौपदी प्रति ।) सदाशिवप्रशिष्योऽयमवधिः सर्वधन्विनाम् । आकर्णपलितः सुभ्र! द्रोणाचार्यः प्रणम्यताम् ॥ ३६॥ द्रौपदी-यः पाण्डवकौरवाणां धनुर्वेदविद्यागुरुः । बन्दी-निजदोःस्तम्भसंभावनागर्वखर्वितविवेकान्नृपतीनवलोक्य किमाह भारद्वाजः शिष्योऽस्मि भार्गवमुनेः कुरुपाण्डवानां कोदण्डकर्मणि गुरुस्तदिदं ब्रवीमि । . हे भूभुजो जयवपूंषि धनूंषि धत्त मुक्त्वाऽर्जुनं तु भुवि विध्यति कोऽत्र राधाम् ॥ ३७॥ द्रौपदी-नमो नमस्ते द्रोणाय कलशोद्भवाय । (सर्वे परिका मितकेन ।) बन्दीदूरोदश्चिमरीचिरत्नरचनाचित्रं तनुत्रं तनो रुत्कृत्य त्रिदशेश्वराय ददतो यस्य सितं चक्षुषा । पाञ्चालीवदनेन्दुसुन्दरतया तेनैव पर्यश्रुणा सोऽयं पश्यति दुर्धरं धनुरिदं राधां च राधासुतः॥३८॥ १. राधाः धन्विना लक्ष्यविशेषः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy