________________
बालभारतम् कण्ठे मौक्तिकदाम गण्डतलयोः कार्पूरमच्छं रजः .. सान्द्रं चन्दनमङ्गके विचकिलस्रक्शेखरं मूर्धनि । तन्वी गाढमियं चकास्ति तनुनी चीनांशुके बिभ्रती
शीतांशोरधिदेवतेव गलिता व्योनि द्रुतं गच्छतः ॥२७॥ भीमः-(द्रौपदीसंभाषणमनुसंधाय । खगतम् ।) श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः
पद्भ्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम् । धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्र ___ त्वद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥२८॥ अर्जुन:-(खगतम् । ) हृदय! कारय चक्षुषी पारणम् । पुरतो द्रौपदी । अस्याः खलु वयो विशेषोचितमधुना संभाव्यते,शारीद्यूतकलाकुतूहलि मनश्छेकोक्ति शिक्षारति
नित्यं दर्पणपाणिना सहचरीवर्गेण चाचार्यकम् । प्रौढस्त्रीचरितानुवृत्तिषु रसो बाल्येऽपि लज्जा मना
क्स्तोकारोहिणि यौवने मृगदृशां कोऽप्येष रम्यः क्रमः ॥२२॥ नकुल:-(स्वगतम् । ) नेत्रे ! यथाशक्ति विस्तारं भजेथाम् । स्मितपरिचयावृत्तिर्वाचामपाङ्गतरङ्गितं
नयनरचितं पादन्यासो नितम्बभरालसः। अहह सुतनो लासूत्रैः कृतं पदमङ्गके
वहतु मदनः शोभामात्रं धनुर्ननु संप्रति ॥ ३०॥ सहदेवः-(खगतम्।) क्षणं चक्षुषी ! निमेषदोषमपाकुरुतम् । 'इदमग्रे हृदयलेह्यममानुष्यं लावण्यम् ।
तरङ्गय दृशौ मनास्थगय दिङ्मुखान्युत्पलैः __करौ वलय जायतां सरसिजाकरो जङ्गमः । विहस्य पुनरुक्ततां सुतनु लम्भयैकावली
मुदश्चय मुखं भवत्वयमकाण्डचन्द्रोदयः ॥ ३१॥ १. 'व्योमारोहतः' इति पाठान्तरम्.