________________
वास्तुयुक्तिः। दक्षिण मृत्युदो वास्तु धनहापश्चिम-प्रवः । कोणे रेखाइयं कृत्वा मध्येरेखाइयन्तथा । ३०५ ॥ ऐशान-कोणतोरेखा दक्षिणाये (४) वंजास्तथा। नाचामरो नामणिश्च नापताकापि नाध्वजः ॥ ३०६ ॥ नकुम्भादिनवितानो नाचित्रो नातिचित्रक। नात्युच्चो नातिनीचोवा नाप्रकीर्णः प्रकीर्णकः । ३०७ ॥ नाधातु न गवाक्षश्च नचैकानेक-हारभाम् । नियमस्तु महोन्द्राणां सर्वसम्पत्ति-हेतवे ॥ ३०८ ॥
इति राज-गृहयुक्तिः । अन्येषान्तु यथा वास्तुमानेन नियमः।ध्वजोधूमस्तथा सिंह:श्वा ( ५ ) षोगईभो गजः । काक इत्येष गदितो वास्तुस्थानस्य निर्णयः । अयुग्मे सुखसम्पत्तिः युग्मञ्चविपदास्पदम् ॥ ३०८ ।
एव मन्यत्रापि । ध्वजे विभूति विपदश्वधूमे, सिंहविभोगः शुनि सर्वनाशः । वृषे सुखं गईभतो विनाशः ; गजे धनं काक-पदेच मृत्युः ॥३१॥
कोणरेखा कोणसुचिः (१) सुखसम्पत्ति-नाशिनी। पूर्व-पश्चिमतोदण्ड उदयाख्यः सुखावहः ॥ ३११॥ दक्षिणोत्तरतोदण्डो वंशहा यमदण्डकः । । महानि पातयेदोमान् एषांदण्ड-(२) व्यधान्तरे ॥ ३१२ ।
(४) दक्षिणाः इति (ग) पुस्तक पाठः । (५) श्वावतो इति (ख) पुस्तक पाठः । (१) कोन सूचो (शुचि) इति (ख)-(ग) पुस्तक पाठः । (२) दण्डः व्यधान्तरे ? इति (क) पुस्तक पाठः ।