SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ २८ युक्तिकल्पतरी अन्येतु, यद्दशा जनितो राजा तद्दिगग्रः प्लवो मतः । एतेन गुरुदशा-जातस्य नृपतेर्द्दक्षिणप्लवो न दुष्यति ॥ १८५ ॥ अन्यत्र तु, – ब्रह्म-क्षत्रिय-विट्शूद्राः पूर्व्वादि- दिग्युगे क्रमात् । वास्तु-प्लवनमिच्छन्ति निजसम्पत्ति-हेतवे ॥ १८६ ॥ नीतिशास्त्रे च वास्तुकर्म नृपः कुर्य्यात् * बलद्वैरिणो दिशि । दोघं वा चतुरस्रां वा वास्तु-भूमिं महोचिताम् । एतयोर्लक्षणं तद्दत् फलञ्च नगरे यथा ॥ १८७ ॥ अथ मानम् । राजकाण्डेन + नृपतिर्वास्त्वारम्भं समाचरेत् । जयोभङ्गः सुखं दुःखं प्रोतिर्भीश्च चलः स्थिरः ॥ इत्यष्टौ वास्तुनामानि राजकाण्डैरनुक्रमात् ॥ १८८ ॥ - अन्यत्र च, - जन्मलग्ने महोभत्तुः कुण्डयोरन्त एव हि । राजकाण्डैस्तु तावद्भिर्वास्तुं कुर्यान्महीपतिः ॥ १८८ ॥ सुदर्शा(६)च्छन्द-संख्येन राजपट्टेन भूपतेः । वास्तुकर्म समारम्भ्रो धनधान्य- जयप्रदः ॥ १८० ॥ (६) स्वदशा दर्शाच्छन्द इति (ग) पुस्तक पाठः । नगरप्रकरणीक्त परिमाणमत्र विज्ञेयम् । t गृह वास्तु-नगर-हर्मप्रादीनामारम्भे जन्मलग्न-ग्रह-तिथि-भयोगादीनां शुद्धिः सर्वत्र सव अया, एवं दुर्ग सेनानिवासादौ च तथैव वोध्यम् ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy