SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ युक्तिकल्पतरो— सदयस्तु भृत्या (६) त्म-पीड़न र सञ्चयो । तद्धनं राज-दायाद-तस्कराणां निधिर्भवेत् ॥ ३७ ॥ भिक्षा च राजकोषश्च स्तोक स्तोकेन वर्द्धते । अञ्जनञ्च(७) धनञ्चैव स्तोक- स्तोकेन हीयते ॥ ३८ ॥ कोषस्य साधनोपायो मुख्यं राष्ट्रमिति स्मृतम् 1 भूगुणैर्वर्द्धते राष्ट्रं तहृद्धि (८) नृपत्तता ॥ ३८ ॥ राज्ञोपायेन (c) संरक्ष्या ग्रामे ग्राभे कृषीबला: : तेभ्यः कृषि स्ततश्चार्था अर्थेभ्यः सर्व्वसम्पदः ॥ ४० ॥ शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा । तथा वर्षेषु वर्षेषु कर्षणाद्भूगुण- [ क्षयः * ॥ ४१ ॥ एकस्यां गुणहोनायां कृषिमन्यत्र कारयेत् ॥ ४२ ॥ ०० अथ बलम् । रथिनः सादिनश्चैव गजारोहाश्च सत्तमाः । पत्तयश्च महाकाया वलमेतच्चतुर्व्विधम् + ॥ ४३ ॥ (६) भृतार्थ इति (ख) पुस्तक पाठः । (७) अर्ज्जनञ्च इति (ख) पुस्तक पाठः । (८) तद्दुद्धि: इति (ख) पुस्तक पाठः । ( 2 ) अपायेन इति (ख) पुस्तक पाठः । * प्रत्यब्दं कर्षणेन चेवस्य शस्योत्पादनशक्ति सत्येव । अतएवहि कृषीवलैः कृष्टभूमौ तच्छक्तिपरिष्वृद्धार्थं पर्य्युसित - गोमय पङ्क - करौषभस्मादिकं प्रदातव्यमित्यादि बृहत्पराशरीयकृषियन्येऽस्ति । + "एको रथो गजश्चैको नराः पञ्च पदातयः । वयश्च तुगराश्चैव पत्तिरित्यभिधीयते ॥ " ( इति भरत: )
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy