SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ अथ युक्तिकल्पतरः। (श्रीभोजराजीयः) ----- →००---- ( अत्र नौति युक्तिः ) ... प्रों नमः शिवाय। विश्व सर्गविधौ वेधा स्तत्पालयति यो विभुः । तदत्ययविधावीश स्तं वन्दे परमेश्वरम् ॥ १ ॥ कंसानन्दमकुर्वाणः कं सानन्दं करोति यः । तं देववृन्दैराराध्यमनाराध्यमहभजे ॥ २ ॥ नमामि शास्त्रकर्तृणां चरणानि मुहम्मुहुः । येषां वाचः पावयन्ति (१, श्रवणेनैव सज्जनान् । ३ ॥ नानामुनि * निबन्धानां सारमाक्ष्य यत्नतः । तनुते भोजनृपति युक्तिकल्पतरं मुदे ॥ ४ ॥ विवुधाभौष्टदममुं कल्पवृक्षं समाश्रितः (२)। प्राप्नोतीष्टतमां सिद्धिं वुधाः ! (३) संसेव्यतामयम् ॥ ५ । (१) पारयन्ति (ख) पुस्तक पाठः । (२) समाश्रितम् (ख) पुस्तक पाठः । (३) वुधैः (ख) पुस्तक पाठः । ___ * इह तु पार्याणां वहून्ये व प्राचौना नि नौतिपुस्तकानि सम्यगासन् । तेषु च वाईस्पत्यं, प्रौशनसम, विश्वामित्रीयम्, धौम्यञ्चैतानि पुरातनानि । एवं कौटिलीयम्, कामन्दकीयम्, नौतिमयूखादीनि च मध्यकालिकानि। अपरानि च भर्तृहरीयादौनि। महर्षिमन्वादोना संहितास च बहुषु प्रकरणेषु सन्ति नीतिविषयाः। पुराण-ज्योति:शास्त्र-चिकित्माशास्त्राणां प्रकरणेषु च वर्तन्ते बहुधा मौतयः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy