SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २२८ यानयुक्तिः। अत्र शय्यासनादीनां मन्थरोलोचयोरपि (१) । अन्येषाञ्चव मुनिभि निर्णयः पूर्ववन्मतः ॥ २७ ॥ दिनानमिदमुद्दिष्टं नौकालक्षणमग्रजम् । प्रधानेष्वव नियमो अप्रधाने न निर्णयः ॥ २८ ॥ लघुता दृढ़ता चैव गामिता छिद्रता तथा । समतेति गुणोद्देशो नौकाना(यां) सम्प्रकाशितः ॥ २८ ॥ एवं विचिन्त्य यो राजा नौकायानं करोति चाहि)। स चिरं सुखमाप्रोति विजयं समरे श्रियम् ॥ ३० ॥ योऽज्ञानादन्यथा यानं नौकानां कुरुते नृपः । तस्यैतानि विनश्यन्ति यशो वीर्य वलं धनम् ॥ ३१ ॥ इति निष्पदयानोहे शे नौका-यानम् । ० ॥ अथ जघन्यजलयानानि । यथा,नौकान्यतो जले(स्य)यानं जघन्यमिति गद्यते । तद्दे हा वहवस्ते तु पाश्चात्यानां प्रकीर्तिताः ॥ ३२ ॥ द्रोणीरूपन्तु ययानं द्रोणीयानं तदुच्यते । घटी(टा)भिर्घटितं यानं घटी नौकेति गद्यते ॥ ३३ ॥ तुम्बनायेस्तु (२) फलर्यानं फलयानं प्रचक्षते । चर्मभिःस्थू(स्तू)लपूर्णर्यञ्चम-यानं तदुच्यते ॥ ३४ ॥ (१) अत्र शय्यासनादीनामस्वरोन्नोपयोरपि इति (क) पुस्तक पाठः । (२) तबाह्यन्त इति (ख) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy