SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ युक्तिकल्पतरोवृक्षायुर्वेदगदिता वृक्षजातिश्चतुविधा। समासेनैव गदितं तेषां काष्ठं चतुर्विधम् ॥ ८३ ॥ तयथा। लघु यत् कोमलं काष्ठं सुघटं ब्रह्मजाति तत् । दृढ़ाङ्ग लघु यत् काष्ठमघटं क्षत्रजाति तत् ॥ ८४ ॥ कोमलं गुरु यत् काष्ठ वैश्यजाति तदुच्यते । दृढ़ाङ्ग गुरु यत् काष्ठ शूद्रजाति तदुच्यते । लक्षणहययोगेन दिजातिः काष्ठसंग्रहः ॥ ८५ । क्षत्रियकाष्ठेर्घटिता भोजमते सुखसम्पदं नौका। अन्ये लघुभिः सुदृढ़े : विदधति जलदुष्पदे(१)नौकाम् ॥ ८६ ॥ विभिनजातिहयकाष्ठजाता न श्रेयसे नापि सुखाय नौका। नैषा चिरं तिष्ठति पच्यते च विभिद्यते वारिणि मज्जते च ॥८७॥ न सिन्धुगाद्याहति २) लौहवन्ध', तल्लोह-कान्तै: हियते हि लौहम् । विपद्यते तेन जलेषु नौका; गुणेन वन्ध निजगाद भोजः ॥ ८८ ॥ अथ लक्षणानि। सामान्यञ्च विशेषश्च नौकाया लक्षणदयम् ॥ ८८ ॥ तत्र सामान्यम्। राजहस्तमितायामा तत्यादपरिणाहिनो। तावदेवोन्नता नौका क्षुद्रेति गदिता वुधैः ॥ ८० ॥ (१) जलदुष्पदैः इति (क) पुस्तकपाठः । (२) न सिन्धुगाह्यर्हति लौहवन्ध इति (ख) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy