SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १८२ युक्तिकमतरोताजिताः खुरशालाश्च तुषाराश्चोत्तमा हयाः । गोजिकाणाच केकाणा: प्रौढ़ाहाराश्च मध्यमाः ॥ २६ ॥ ताड़जा उत्तमाशाश्च राज-शूलाश्च मध्यमाः । गत्वराः साध्य (१) वासाच सिन्धुदाराः कणीयसः ॥ २७ ॥ अन्यदेशोद्भवा ये च ते वै नीचाः प्रकीर्तिताः । वाजिनो जलजाः केचिदह्निजातास्तथापरे ॥ २८ ॥ समोरप्रभवाश्चान्ये तुरगा मृगजाः परे। जलोद्भवा विजा ज्ञेया: क्षत्रिया वह्नि-सम्भवाः ॥ २८ ॥ प्रभञ्जनभवा वैश्या मृगजाः शूद्रजातयः । पुष्पगन्धिर्भवेविप्रः क्षत्तियो गुरुगन्धिकः ॥ ३० ॥ धृतगन्धो भवेद्देश्यो मौनामोदी च शूट्रकः । विवेको सघणो विप्रस्तेजस्वी क्षत्रियो वली ॥ ३१ ॥ कोष्णभावो (२) भवेद्देश्यः शूद्रो निःसत्त्वको भवेत् । विप्राद्या वाहनाः सर्वे त्रयो भूमिपतेः सदा । शूद्रजातिं तुरङ्गन्तु न स्पृशन्ति नरेश्वरा: ॥ ३२ ॥ इत्यश्वोत्पत्तिः । अथाङ्गुल्याङ्गविभागः। सप्तविंशत्यङ्गलोभिर्मुख-मानं विधीयते । कर्णी षड़ङ्गलौ प्रोक्तो भालकं चतुरङ्गुलम् ॥ ३३ ॥ चत्वारिंशच सप्ताब्यः (३) स्कन्धः संपरिकीर्तितः । पृष्ठवंशश्चतुर्विंशः सप्तविंशा तथा कटौ ॥ ३४ ॥ (१) साध्ववासाश्च इति (क) पुस्तक पाठः । (२) कोणभावे इति (ख) पुस्तक पाठः । (३) सप्ताढया इति (ग) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy