SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १७८ युक्तिकअतरौ तत्र क्रमः । राज्ञां यात्राविधिं वक्ष्ये जिगोषूणां (१) परावनीम् । नोराजनाविधिं कृत्वा सैनिकां(क)श्चानयेत् ततः। गजानन्यान् मृगानन्यानिति यात्राक्रमो मतः ॥ ८८ ॥ __अथ तत्र नौराजनाविधिः । वर्षान्तेऽभ्युदिते शुक्रे चन्द्रे पूर्णे शुभक्षणे । अश्व-नीराजनं कुर्य्याद यथोक्तमृषिसत्तमैः ॥ ८ ॥ उदीची प्रस्थिते भानौ संक्रान्त्यां वा शुभ दिने । गज-नीराजनं कुर्यात् महीपालो जिगौषिवान् ॥ १० ॥ वृश्चिकस्थे रवौ कुर्यात् पत्तिनीराजना-विधिम् । नौका-नीराजनं कुर्यात् दक्षिणाशां प्रतिष्ठते ॥ ८१॥ अन्येषाञ्चैव (२) यानानां विजयादशमोतिथिम् । ध्वजादीनाञ्च सर्वेषां शक्रोत्थाने नोराजनम् ॥ ८२ ॥ छत्रस्य नवदण्डस्य तथा सिंहासनस्य च । रहस्य नगरस्यापि महाविषुव-संक्रमे ॥ १३ ॥ आत्मनो युवराजस्य महिष्या मन्त्रिणां तथा । स्वजन्मदिवसे राजा कुर्यानोराजना-विधिम् ॥ अभिषेक-दिनं प्रोक्तमेषां जन्मदिनं मया (३) ॥ ८४ ॥ तद्यथा। अश्वानां भास्करो देवो रेवन्तमिति संजया । गजानां देवता शक्रः पत्तीनां कालिकामता (४) ॥ ८५ ॥ (१) जिगीषाणां इति (क) पुस्तक पाठः । (२) अन्यासाञ्च व इति (ख) पुस्तकपाठः । (३) जन्मदिनाख्यया इति (ग) पुस्तकपाठः । (४) शत्रुः पत्तीनां कालिका मता इति (घ) पुस्तकपाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy