SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ मुक्तायुक्तिः । शुद्धस्य गोमेद मणेस्तु मूल्यं, सुवर्णतो गुणमाहुरेके । अन्ये तथा विद्रुमतुल्य-मूल्यं ; तथापरे चामरतुल्यमाहुः ॥ ४१ ॥ चतुर्व्विधानामेषान्तु धारणे परिसम्मतम् ॥ ४१ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ गोमेद परीक्षा ॥ अथ मुक्ता परीक्षा | 9 दिपेन्द्र जीमूतवराहशङ, मत्स्याहि शक्त्युद्भव वेणुजानि । मुक्ताकलानि प्रथितानि लोके ; तेषान्तु शक्त्य ुद्भवमेव भुरि * ॥४३॥ वेध्यन्तु शक्त्य ुद्भवमेव तेषां शेषान्यवेध्यानि वदन्ति तज्ज्ञाः । मतङ्गजा ये तु विशुद्धवंश्या ; स्तेमौक्तिकानां प्रभवाः प्रदिष्टाः ॥ ४४ ॥ उत्पद्यते मौक्तिकमेषु वृत्तम्, पीतवर्णं प्रभया विहीनम् ॥ ४५ ॥ वक्ष्ये गजपरीक्षायां गजजातिर्चतुर्व्विधा । मौक्तिकं तेषु जातं हि चतुर्विधमुदीर्य्यते ॥ ४६ ॥ ब्राह्मणं पोतशुक्लन्तु क्षत्रियं पोतरक्तकम् । * १०७ पोतश्यामन्तु वैश्यः स्यात् शूद्रं स्यात् पोतनोलकम् ॥ ४७ ॥ काम्बोज-कुम्भसम्भूतं धात्रीफलनिभं गुरु । अतिपिज्ञ्जरसच्छायं मौक्तिकं मन्ददीधिति ॥ ४८ ॥ धाराधरेषु जायेत मौक्तिकं जल- विन्दुभिः । दुर्लभन्तन्मनुष्याणां देवैस्तत् क्रियतेऽम्बरात् ॥ ४८ ॥ कुक्कुटाण्डसमं वृत्त मौक्तिकं निविड़ गुरु | घनजं भानुसंकाशं देवयोग्यममानुषम् ॥ ५० ॥ 'स्वात्यम्ब शुक्ति कूहरे पतदेवमुक्ता, मुक्त व पङ्कजदले नरजः किञ्चित्" ॥ इति कवयः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy