SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ युक्तिकल्पतरोगुणोपपन्नेन सहावरुद्धो, मणिस्त्वधार्यो विगुणेन जात्यम् । सुखं न कुर्यात् अपि कौस्तुभेन (१); विद्वान् विजाति विभूयात् कदाचित् (२) ॥२०॥ चण्डाल एकोऽपि यथा विजातीन्, समेत्य भूरीन् अपहन्ति यत्नात् । तथा मणीन् भूरि गुणोपपत्रान् । शक्नोति विद्रावयितु विजातम् ॥ २१ ॥ अथ वच्चादौनां मूल्यम्। वालार्काभिमुखं कृत्वा दर्पण धारयेत् मणीन् । तत्र कान्तिविभागण छाया भागं विनिर्दिशेत् ॥ २२ ॥ वज्रस्य यत् तण्डुलसंख्ययोक्तम्, मूल्यं समुन्मापित गौरवस्य । तत् पद्मरागस्य तुणान्वितस्य ; स्यान्माषकाख्या तुलितस्य मूल्यम् ॥ २३ ॥ यन्मूल्यं पद्मरागस्य सगुणस्य प्रकीर्तितम् । तावन्मूल्य तथा शुद्धे कुरुविन्दे विधीयते (३) ॥ २४ ॥ सगुणे कुरुविन्दे च यावन्मूल्यं प्रकीर्तितम्। तावन्मूल्य-चतुर्थांशं होनं स्याहे सुगन्धिके ॥ २५ ॥ (१) न कौस्तुभे नापि सहावरुद्धम् इति (ग) पुस्तक पाठः । (२) विद्वान् विजातिं न भ्याडु धस्तं इति (क) पुस्तक पाठः । (३ ( तथाशुद्धैः कुरुविन्दैः इति (ख) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy