SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ युक्तिकल्पतरौएषां पूर्ववदुन्नेयं जाति-दोष-गुणादिकम् ॥ ६८ ॥ स्थलजे जलजे चैव भाव्यमेत विशेषणम् । स्थलजं सुखदह्य हि दाहे मिषमिषायते ॥ ६८ ॥ जलजं बगिदुर्दह्यं महान्तं धूममुगौरेत् (४)। चामराणां समुद्दिष्ट इत्येवं लक्षणहयम् । एवं विमृष्य यो धत्ते स राजा सुखमश्नुते ॥ ७० ॥ जलजं चामरं राजा यो धत्ते जाङ्गलेश्वरः। तस्याचिरात् कुलं वीर्य लक्ष्मोरायुश्च नश्यति ॥ ७१ ॥ अनूपाधीश्वरो राजा यो वहेत् स्थल तथा । तस्यैतानि विनश्यन्ति लक्ष्मीरायुयशोवलम् ॥ ७२ ॥ नालं वर्णहये तेषां विधेयं शिल्पिनां क्रमात् । संस्कारो वालुकायन्त्र(यान्तु) मसूर-सलिलादिभिः (५) ॥७३॥ एषां कृत्रिमदण्डत्वं प्रतिभाति यदा क्वचित् । तदोष्ण-सलिल-काथात् कृत्रिमत्व विपद्यते ॥ ७४ ॥ इति श्रीभोजराजीय युक्तिकल्पतरौ उपकरणयुक्तौ चामरोद्देशः ॥ - - * .mnaron अथ भृङ्गारोह शः । . राज्ञोऽभिषेक-पात्रं यद् ‘भृङ्गार' इति तन्मतम् । तदष्टधा तस्य मानमाकृतिश्चापि चाष्टधा ॥ ७५ ।। सौवर्ण राजतं भौमं ताम्र' स्फाटिकमेव च * । चान्दनं लोहजं शाङ्ग मतदष्टविधं मतम् ॥ ७६ ॥ (४) मुद्दिशेत् इति (२) पुस्तक पाठः । (५) मसमसलिलादिभिः इति (२) पुस्तक एराठः । ** 'सौवर्णमित्यारभ्य- उन्मिता' इत्यन्तं साईलीको (ख) पुस्तके नास्ति ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy