________________
३२]
बृहवृत्ति-लघुन्याससंवलिते [पाद. १. सू. ७४-७८ ) जिममश्नातीत्येवंशीलः, अजस्येव बस्तिरस्य, शकान् अन्धयति, परिधीयते' 'मृश्वि' ६२७ (उणादि ) इति शकेरूनिः, अतेरिथिः, अनुदृश्यात् , शलाकावत् लेखावत् भूर्यस्य, 'विपिन' २८४ ( उणादि ) इति रोहिणो, रुक्मस्या अस्ति, विवष्टि विगतो वशो यस्या वा, कुबेरस्य तुल्या कुबेरिकाः । ___ अम्बते अम्बायास्तुल्या वा, न विद्यते शोको यस्याः, विगता माता, विगतो धवो यस्याः, गुध्यते गोधा, शोभनं दाम नाम यस्याः । श्यामलक्षणादासिष्ठे ॥ ६. १. ७४ ॥
श्यामलक्षण •इत्येताभ्यां वासिष्ठेऽपत्यविशेषे एयण् प्रत्ययो भवति । श्यामेयो वारिष्ठः । श्यामायनोऽन्यः। अनादित्वात् वृद्ध आयनब, अवृद्ध तु श्यामिः, लाक्षणेयो वासिष्ठः, लाक्षणिरन्यः ।।७४॥ विकर्णकुषीतकात्काश्यपे ॥ ६. १.७५ ॥
विकर्णकुपीतक इत्येताभ्यां काश्यपेऽपत्यविशेषे एयण् प्रत्ययो भवति । वैकर्णेयः काश्यपः, वैकणिरन्यः, कौषीतकेयः काश्यपः, कौषीतकिरन्यः ॥७५।। भ्रुवो भ्रुव च ॥ ६. १. ७६ ॥
भ्रूशब्दादपत्ये एयण् प्रत्ययो भवति भ्रुव चास्यादेशः । भ्रुवोऽपत्यं भ्रौवेयः ।।७६॥
न्या० स० भ्रुवो-ध्रौवेय इति यथा चुलुकस्याऽपत्यसंभवस्तथा भ्रुवोऽपि । कल्याण्यादेरिन चान्तस्य ॥ ६. १. ७७॥
कल्याण्यादिभ्योऽपत्ये एयण प्रत्ययो भवति इन इत्ययं चान्तस्यादेशः। कल्याण्या अपत्यं काल्याणिनेयः । सौभागिनेयः । कल्याणी, सुभगा, दुर्भगा, बन्धकी, जरती बलीवर्दी, ज्येष्ठा, कनिष्ठा, मध्यमा, परस्त्री, अनुदृष्टि, अनुसृष्टि इति कल्याण्यादिः । परस्त्र्यन्तानां 'याप्त्यूः ' (६-१-७०) इति अनुदृष्टेः 'शुभ्रादिभ्य' (६-१-७३) इति एयण सिद्ध एव इनादेशमात्रं विधीयते । अनुसृष्टेरुभयम् ।।७७॥
न्या० स० कल्या-शुभ्रादित्वात आनुदृष्टयः, कल्याण्यादिपाठात् आनुदृष्टिनेयः । कुलटाया वा ॥ ६. १. ७८॥
कुलान्यटति कुलटा, कुलटाशब्दादपत्ये एयण् प्रत्ययो भवति तत्संनियोगे इन् च वान्तादेशः । आवन्तत्वादेयण सिद्ध आदेशार्थं वचनम्, अत एवादेशस्यैव विकल्पो न स्वेयणः । कोलटिनेयः, कौठेयः। या तु कुलान्यटन्ती शीलं भिनत्ति ततः परत्वात् क्षुद्रालक्षण एरणेव, कौलटेरः ॥७८॥