SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ( पाद. १. सू. ७२-७३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः । ३१ इतोऽनित्र ॥ ६. १. ७२ ॥ __ इअन्तजितात् द्विस्वरादिकारान्तादपत्ये एयण् प्रत्ययो भवति । नाभेरपत्यं नाभेयः, अत्रेरात्रेयः । अहेराहेयः, दुलेदौलेयः, वलेलेयः, निधेर्नेधेयः । इत इति किम् ? दाक्षिः । अनिब इति किम् ? दाक्षायणः । द्विस्वरादित्येव ? मरीचेरपत्यं मारीचः, कथमजबस्तेरपत्यमाजबस्तेयः शकन्धेरपत्यं शाकन्धेय : परिधेः पारिधेयः शकुनेः शाकुनेय : अतिथेरातिथेय इति, शुभ्रादित्वाद्भविष्यति ॥७२॥ शुभ्रादिभ्यः ॥ ६. १. ७३ ॥ शुभ्रादिभ्योऽपत्ये एयण् प्रत्ययो भवति । यथायोगमिश्रादीनामपवादः । शौभ्रेयः, वैष्टपुरेयः । शुभ्र, विष्टपुर, विष्टपर, ब्रह्मकृत, शतद्वार, शताहार, शालाधल, किट (टीक), शालक, कृकलास, प्रवाहण, भाण, भारत, भारम, कुदत्त, कपूर, इतर, अन्यतर, आलीढ, सुदत्त, सुदक्ष, तुद, अकशाप, वादन, शतल, शकल, (शक) शवल, खडुर, कुशम्ब, शुक्र, विग्र, वीज, अश्व, वीजाश्व, अजिर, मवक्र, मखण्डु, मकष्टु, मघष्टु, सृकण्डु, मृकण्डु, जिह्माशिन्, अजवस्ति, शकन्धि, परिधि, अणोचि, कणीचि, शकुनि, अतिथि, अनुदृष्टि, शलाकाभ्रू, लेखाभू, रोहिणी, रुक्मिणी, किकशा, विवशा, गन्धपिङ्गला, षडोन्मता कुमारिका, कुबेरिका, अम्बिका, अशोका, श्वन्, गङ्गा, पाण्डु, विमातृ, विधवा, कादू, गोधा, सुदामन्, सुनामन् इति शुभ्रादयः ॥ मवक्रान्तानामिनोऽपवाद एयण मखण्डवादीनां विमात्रन्तानामणः विधवाया एरणः कद्रूगोधयोश्चतुष्पादेयत्रः । सुदामन्सुनाम्नोरिबा शुभ्रस्य तु ज्येन समावेशार्थः पाठः, बहुवचनमाकृतिगणार्थम् ॥७३॥ . न्या० स० शुभा-शोभते, 'ऋज्यजि' ३८८ ( उणादि ) इति, विष्टानि पुराणि येन विष्टं परं येन, ब्रह्मणा क्रियते स्म, शतं द्वाराणि यस्यां, शतमाहरति, शालासु तिष्ठतिपृषोदरादित्वात् , टोकते 'नाम्युपान्त्य' ५-१-५४ इति कः, शल्यणेणित् शालूकः । कृतकेन शलति, प्रवाहयति नन्द्यादित्वादनः, भण्यते उपादेयतया, भरतस्यायम् , भाभी रमते, क्वादीयते स्म, कल्पते स्म कल्पते, 'मीमसि' ७४६ (उणादि) इति, इण्पूभ्यां कित , द्वयोर्मध्ये प्रकृष्टोऽन्यवरः, आलियते स्म, सुखेन दीयते स्म, शोभना दक्षा यस्य, तुदांत 'नाभ्युपान्त्य' ५-१-५४ इति कः, अकं शपनि, वादयति नन्द्यादित्वात् , शतं लाति, 'मीममि' ४२७ ( उणादि ) इति खडूरः । को शाम्यति ‘शम्यमेणिवा' ३१८ ( उणादि ), विगता नासिका यस्य, वियो ज, बीजश्चासौ अश्वश्च, 'स्थविरः' ४१७ (उणादि) इति अजिरः' मया लक्ष्म्या वक्रः, मया खण्डयति कषति घर्षति केवयु' ७४६ ( उणादि ) इति 'ड्यापोबहुलम' २-४-९९,
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy