SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ 36 ] श्रीसिद्धहेमचन्द्रशब्दानुशासने गह्वरं, कुञ्जः गह्वरः गजकुम्भाधो दन्तिदन्तः हनुश्च, भूजं च तरुविशेषत्वक्. अम्बुजः कमलं चकारोऽनुक्तसमुच्चये. तेन चान्तेषु अध्य! नमस्या ।। १२ ।। ध्वजमलयजकूटाः कालकूटारकूटौ, कवटकपटखेटाः कर्पटः पिष्टलोष्टौ । नटनिकटकिरीटाः कर्बटः, कुक्कुटाट्टी, __ कुटयकुटविटानि व्यङगटः कोहकुष्टौ ॥ १३ ॥ ध्वजः पताकादिः मलयजः श्रीखण्ड, कूटं मायादि, कालकूट विषं, प्रारकूटो रीतिः, कवटः उच्छिष्ठ, कपट: दम्भः, खेटः फलकं कफश्च, कर्पट: वासः, पिष्ट: अपूपः, लोष्टः मृच्छकलं, नट: नर्तकविशेषः, निकटः समीपं, किरीटः मुकुटं, कर्बटः पर्वतावृतग्रामविशेषः, कुक्कुटः ताम्रचूडः, अट्टः क्षौमं गेहभेदश्च, कुटो घटः हलाङ्गविशेषश्च । यकुटः वार्ताकोकुसुमं, विट: खिङ्गः गोविशेषश्च, व्यङ्गट: शिक्यभेदः, कोट्टः दुर्गः । अथ ठान्तौ कुष्ठं त्वग्दोषः गन्धद्रव्यविशेषश्च ।। १३ ।। कमठो वारुण्डखण्डषण्डानिगडाक्रीडनडप्रकाण्डकाण्डाः । कोदण्डतरण्डमण्डमुण्डा, दण्डाण्डौ दृढवारवारणबारणाः ॥ १४ ॥ कमठः असुरविशेषः भाजनं च, कूर्भे तु देहिनामत्वात पुस्त्वमेव, वारुण्डः दृक्कर्णमलः गणिस्थराजश्च, खण्डः शकलमिझुविकारश्च, गुणवृत्तेस्त्वाश्रयलिङ्गता, खण्डः खण्डी खण्डमिति, षण्डः वृक्षादिसमूहः, निगडः पादबन्धनं, अाक्रीडः उद्यानविशेषः, नडः नड्वलजस्तृणविशेषः, प्रकाण्डः स्तम्बः, शस्तं तरोश्च मूलशाखान्तरं, काण्डः शरः समयश्च, प्रकरणं, समूहः, जलं, वालं, कुत्सितं वृषस्कन्धः लता च । कोदण्डं चापं, तरण्ढः उडुपः, मण्डः द्रवद्रव्याणामुपरिस्थो भागः भक्तादिनिर्यासः एरण्डः मस्तु च, मुण्डं शिरः, दण्डः यष्टिः, मन्थाः सैन्यं दमनं च। अण्डः पक्ष्यादिप्रसवः । अथ ढान्तः दृढः स्थूलं बलवांश्च, वारबाणं चर्म, बाणः शरः पुष्पविशेषश्च ।। १४ ।। कर्षापरणः श्रवणपक्वरणकङ करणानि, द्रोणापराह्णचरणानि तृणं सुवर्णम् । स्वर्णवणौ वृषणभूषणदूषणानि, भारणस्तथा किरणरणप्रवणानि चूर्णः ॥१५॥ कर्षापणः मानविशेषः पणषोडषकं च, प्रज्ञाद्यणि कार्षापणोऽपि श्रवणः कर्णः, पक्वणः शबरालयः, कङ्कणः हस्तरक्षासूत्रं, द्रोणः परिमाणविशेषः अपराह्नः दिवसापरभागश्च, चरणं गोत्रादि, तृणः उपलादिः, सुवर्णः स्वर्णः हेमं, व्रणः ऊरुः, वृषणः मुष्कः,
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy