SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ! लिङ्गानुशासनम् [35 कोरकः कोरकं कुड्मलं प्रर्थप्राधान्यात् क्षारकोऽपि । करकः करकं कमण्डलुः करङ्कश्श्र्च, कन्दुकः कन्दुकं गिरिः अन्दुकः ग्रन्दुकं गजपादबन्धनं, अनीकः अनीकं युद्धं सेना च, निष्कः निष्कं हेम्नः अष्टोत्तरं, शतं, पलं कर्षः, हेम्नः, उरोभूषणं दीनारश्च । चषक: चषकं मद्यपानभाजनं विशेषकः विशेषकं तिलकः ।। ६ ।। शाटककण्टकटङ्कविटङ्का, मञ्चकमेचकना कपिनाकाः । वर्णकमोदकमूषिकमुष्काः ।। १० ।। पुस्तक मस्तकमुस्त कशाका, शाटक: शाटकं वस्त्रविशेषः, कण्टकः कण्टकं रोमाञ्चः वृक्षभेदी च, टङ्कः पाषाणादिच्छेदोपकरणं गिरिशृङ्ग च विटङ्कः विटङ्क कपोतपालीसंज्ञं पक्षिविश्रामार्थं बहिर्निगतं दारु, वदार्वाधारः तत्र हि कपोतपङ्क्तिरुत्कीर्यते । ञ्चकः पल्यङ्कः, मेचक: वर्णविशेषः, नाक: स्वर्ग: आकाशं च, पिनाक: रुद्रधनुः, पुस्तक: लिखितपत्रसञ्चयः, रणकप्रत्ययान्तोऽयम् तेन पुस्तात् स्वार्थिककेन न सिध्यति । मस्तकः शिरः, उणादौ तु कान्तोऽयं तप्रत्ययान्ताद्वा स्वार्थिकः कः, मुस्तक: मुस्ता । शाकं मूलकादि, वर्णक: विलेपनं, मोदकः लड्डुक:, मूषिकः श्रा:, मुष्कः वृषणः ।। १० ।। चण्डात कश्चरक रोचक कञ्चुकानि, मस्तिष्कयावककरण्डकतण्डकानि । प्रातङ्कशूकसरकाः कटकः सशुल्कः, पिण्याकभर्भर कहंसकशंखपुंखाः ॥११॥ चण्डातकः अर्धोरुकवस्त्रं, चरकः शास्त्रविशेषः । रोचकः क्षुत्, कञ्चुकः सन्नाहादि:, मस्तिष्कः मस्तकस्नेहः यावकः अलक्तकः, करण्डकः पुष्पाद्याधारः, तण्डकः शाल्यादिसारः, प्रातङ्कः इष्ट वियोगतापरुक्शङ्कादिषु, घञन्तत्वात् पुंसि । शूकः धान्यादेः शृङ्गः, सरकः मद्यभाजनं मद्यपाने तु त्रिलिङ्गः, कटकः सैन्यं सानु: वलयोऽद्रिशृंगं च, शुल्क: मार्गादौ राजदेयं स्त्रीविवाहपरिग्राह्यं धान्यं च । पिण्याक : तिलादिखलः, झर्झरकः कलियुगं, हंसकः नूपुरं, शंखः कम्बुः वलयं प्राण्यङ्ग, पुङ्खः शरस्पृष्टम् ।। ११ ।। नखमुखमधिकाङ्गः संयुगः पद्मरागो, भगयुगमथ टङ गोद्योगशृङ्गा निदाघः । क्रकच कवचकूर्चार्धर्चपुच्छोञ्छकच्छा, व्रजमुटजनिकुञ्जौ कुञ्जभूर्जाम्बुजाश्च ।। १२॥ नखमुखे प्रसिद्धे, अधिकाङ्गः सारसनं यद् हृदि बध्यते युधि, संयुगः संग्रामः, पद्मरागः शोणमणिः, भग उपस्थः, युगो यूप:, टङ्गः खनित्रं उद्योगः पराक्रमः शं. गं शिखरं निदाद्यः ग्रोष्मः, क्रकचः करपत्रं, कवचः वर्म, कूर्चः भ्रूमध्यं दीर्घश्मश्रु कैतवं च । ऋचोऽर्धमर्धर्चः । 'परलिङ्गो द्वंद्वोंऽशी' इत्यस्यापवादः । पुच्छः लाङ्गूलं, उञ्छं जीविकाविशेषः, कच्छो बहुजलो देशः व्रजः पन्थाः, उटजः तापस पर्णकुटी निकुञ्जः
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy