SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् [ 19 सनिर्याञ्चा, सानिर्वस्त्रभेदः, मेनिः संकल्पः, मरिर्मारिश्च मरकं, अश्रिः कोटिः, प्रोषधिरौषधं, विद्रधिः रोगविशेषः, झल्लरिर्वाद्यविशेषः, अर्थप्राधान्यात् कलरिरपि, पारिस्तैलाद्याधारः, अभ्रिः खनित्र शिरोधिः कन्धरा, कबिः खलीनं, कोतिर्यशः । अथेदन्ताः,-गन्त्री शकटिका, कबरी वेरिणः, कुमारी रामतरुणी, प्राढकी धान्यविशेषः, अर्थप्राधान्यात् तुबर्यपि, स्वेदिनी कण्डूः, ह्रादिनी वज्र, ईली एकधारोऽसिः ।। २६ ।। हरिण्यश्मरी कतरीस्थग्यपट्यः, करीयेंकपद्यक्षवत्यः प्रतोली। कृपारणीकदल्यौ पलालीहसन्यौ, बृसी गृध्रसी घर्घरी कर्परी च ॥ ३० ॥ हरणी स्वर्णप्रतिमा, अश्मरी मूत्रकृच्छ, कतिनी तकु:, स्थगी ताम्बूलकरङ्कः, अपटी काण्डपटः, करीरी करिदन्तमूलं, एकपदी मार्गः, अर्थप्राधान्यात् पदविरपि । अक्षवती द्यूतं, प्रतोली विशिखा, कृपाणिः कर्तरिः, अर्थप्राधान्यात् कर्तर्यपि, कदली पताका, पलाली क्षोदः, हसनो अङ्गारशकटी, अर्थप्राधान्यात् हसन्त्यपि, बृसी वतिनामासनं मूर्धन्योपान्त्यो दत्योपान्तश्च, गृध्रसो उरुसंधौ वातरुक्. घर्घरी किंकिणी, कर्परी तुत्थाअनं अर्थप्राधान्याद्दर्विकाऽपि ।। ३० ।। काण्डी खल्ली मदी धटी गोणी खण्डोल्येषणी द्रुणी । तिलपर्णी केवली खटी नध्रीरसवत्यौ च पातली ॥ ३१ ॥ काण्डी वेदविषयो ग्रन्थः, खल्ली हस्तपादावमर्दनाख्यो रोगः, मदी कृषिवस्तुविशेषः, धटी वस्त्रखण्डं, गोणी धान्यभाजनविशेषः, अर्थप्राधान्यात् कण्ठालापि, खण्डोली सरसी तैलमानं च, एषणी वैद्यशलाका, अर्थप्राधान्यात् नाराच्यपि, द्रुणी कर्णजलौका, तिलपर्णी रक्तचन्दनं, पर्ण्यन्तत्वेन माषपणीत्याद्यपि, केवली ज्योतिःशास्त्रं, खटी खटिनी,-अर्थप्राधान्यात् कष्कटी कठिन्यामपि, नध्री वध्री, रसवती महानसं, पातली वागुरा ।। ३१ ।। बाली गन्धोली काकली गोष्ठ्यजाजी ___ न्द्राणी मत्स्यण्डी दामनी शिञ्जिनी च । शृङगी कस्तूरी देहली मौ~तिभ्या सन्दीक्षरेय्यः शष्कुली दद्रुप्रसं ॥ ३२ ॥ बाली कर्णभूषण, कप्रत्यये बालिका सिकता, गन्धोली क्षुद्र जन्तुः, काकली ध्वनिविशेषः, गोष्ठी सभा संलापश्च, अजाजी जीरकः, इन्द्राणी करणविशेषः सिन्दुवारश्च । मत्स्यण्डी, शर्कराभेदः । अर्थप्राधान्यात् मात्स्यण्डी मनाण्डी च, दामनी पशुरज्जुः, शिञ्जिनी ज्या शृङ्गी स्वर्णविशेषः, कस्तूरी मृगमदः अर्थप्राधान्याद्योजनगन्धापि, देहली 'गेहद्वाराग्रस्थली, मौर्वी ज्या, अतिभीर्वज्रज्वाला, आसन्दी वेत्रासनं, क्षरेयी पायसं, शष्कुलो अन्नभेदः । अथोदन्ताः ददुः कुष्ठभेदः, पशु: पाङस्थि ।। ३२ ।।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy