SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ २० ] बृहद्वृत्ति- लघुन्याससंवलिते [ पा० १ सू० ४२ ] " रथीतर: । ' भृवृजि ' ५ - १ - ११२ इति खे रथंतरः । निषीदन्ति गुणा अवेति निषादः । ऋच्छिचटि' ३९७ ( उणादि ) इत्यरे शबरः । मठरः । 'सृपृभ्यां दाकु ' ७५६ ( उणादि ) सदाकुः, पृदाकुः इति बिदादयः । गोपवनादावपीति न केवलं हरितादौ । गर्गादेर्यञ् ॥ ६१. ४२ ॥ गर्गादिभ्यो ङसन्तेभ्यो वृद्धेऽपत्येऽर्थे यञ् प्रत्ययो भवति । गर्गस्यापत्यं वृद्धं गार्ग्यः, वात्स्यः । वृद्ध इत्येव ? गर्गस्यापत्यमनन्तरं गार्गि: । गोत्र इत्येव ? गर्गो नाम कश्चित् तस्यापत्यं वृद्धं गागिः । ननु मनोरत्र पाठाल्लोहितादित्वात् स्त्रियां नित्यं डायनिङयां च मानव्यायनोति स्यात् तत्कथं मानवी प्रजेति ? उच्यते, अपत्य सामान्यविवक्षायां 'ङसोऽपत्ये ' ( ६-१-२८) इत्यणि भविष्यति । कथमनन्तरो रामो जामदग्न्यः, व्यासः पाराशर्यः पुत्रेऽपि पौत्रादिकार्य करणात् ? तथोच्यते, अनन्तरापत्यविवक्षायां जामदग्नः पाराशरिः, कथं पाराशरः ? तस्येदमिति विवक्षायां भविष्यति । गर्ग, वत्स, वाज, अज, संकृति, व्याघ्रपाद्, विदभृत्, पितृबध्, प्राचीनयोग, पुलस्ति, रेभ, अग्निवेश, शंख, शट, धूम, अवट, नमस, चमस, धनंजय, तृक्ष, विश्वावसु, जरमाण, कुरुकत, अनडुह, लोहित, संशित, वक्र, बभ्रु, बभ्लु, मण्डु, मक्षु मखु, शस्थु, शङ्कु, लतु लिगु, गूहल, जिगीषु, प्रनु, तन्तु, मनुतन्तु, मनायी । अणेयणोः प्राप्तावस्य पाठः । पुंवद्भावस्तु ' कौण्डिन्यागस्त्ययोः ' – (६ - १ - १२७ ) इति कौण्डिन्यनिर्देशादनित्य इति न भवति । सूनु स्रुव, कच्छक, ऋक्ष, रुक्ष, रूक्ष, तलुक्ष, तण्डिन् वतण्ड, कपि, कत, शकल कण्व, वामरथ, गोकक्ष, कुण्डिनी, यज्ञवल्क, पर्णवल्क, अभयजात, विरोहित, वृषगण, रहोगण, शण्डिल, मुद्गर, मुद्गल, मुसर, मुसल, पराशर, जतूकर्ण, मन्द्रित, अश्मरथ, शर्कराक्ष, पूतिमाष, स्थूर, स्थूरा, अरराका, पिङ्ग, पिङ्गल, कृष्ण, गोलून्द, उलूक, तितिम्भ, भिष, भिषज, भिष्णज, भण्डित, भडित, दल्भ, चिकित, देवहू, इन्द्रहू, यज्ञहू, एकलू, पिष्यल्लु, पत्यलू, वृहलू, पप्फलू, बृहदग्नि, जमदग्नि, सुलामिन, कुटीगु, उक्थ, कुटल, चणक, चुलुक, कर्कट, अलापिन् सुवर्ण, सुलाभिन् इति गर्गादिः ||४२॥ न्या० स० गर्गा० गणः गिरति वदति निरवद्यमिति 'गम्यमि' ९२ ( उणादि ) इति 'मावावद्यमि' ५६४ ( उणादि ) इति च गमौ । गर्गः, वत्सः, वाजयत्यच् वानः । न जातः अजः । संस्करणं संकृतिः । गणपाठात् सडभावः । व्याघ्रस्येव पादौ यस्य व्याघ्रपाद् । विदं विभर्ति पितरं बध्नाति वि विदमृत पितृबधू । बहुव्रीहौ प्राचीनयोगः । अगिविलित्यस्तिकि पुलस्ति: । ,
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy