________________
[ पाद. १. सू. ४१] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः
कश्यप, कुशिक, भरद्वाज, उपमन्यु, किलात, कीदर्भ, विश्वानर, ऋष्टिषेण, ऋतभाग, हर्यश्व, प्रियक, पियक अपस्तम्भ, कुवाचार, कुवाचर, शरद्वत्, शुनक, धेनु । उत्सादिष्वपि धेनुशब्दः पठ्यते । स प्रत्यग्रप्रसवगव्यादिवाचकः, अयमषिवचनः । अश्व शङ्ख, गोपवन, शिग्रु, विन्दु, ताजम, अश्वावतान, श्यामाक, श्यापर्ण, हरित, किन्दास, वस्यस्क, अर्कलुश, वध्योग, विष्णुवृद्ध, वृष्णिवृद्ध, प्रतिबोध, रथीतर, रथंतर, गविष्ठिर, गविष्ठिल, निषाद, शबर, मठर, सदाकु, पृदाकु । केचिदेतौ हरितादेः प्राक् पठन्ति । तन्मते 'हरितादेरबः' (६-१-५५) इत्यायनण् न भवति । मठरशब्दं गोपवनादावपि अबी लुबभावार्थ केचित्पठन्ति । अन्ये तु मठराद्यकारादिमबमिच्छन्ति । माठर्यः, माठयौं । बहुष्वजो लुपि संनियोगशिष्टत्वात् यस्यापि निवृत्तिरिति मठराः ॥४१॥
___ न्या० स० बिदा-सप्तमः काश्यपानामिति अत्र कश्यपसंतानापेक्षया बहुवचनं न तु भ्रातृवर्गापेक्षया, अथ गणः, विन्दत्यवयवी-भवति स्वगोत्रे ‘विन्देनलुकच' ६ ( उणादि) इति अः बिदः, उर्वति अष्टप्रकारं कर्म उर्वः, कशामर्हति कश्यः, अनया व्युत्पत्त्या पुरुष एव लभ्यते न मद्यं, न पुरुषो मद्ययोगात् कशायोग्यः अतस्तदेव कशायोग्यं, कश्यं पिबति कश्यपः । कुश्यति सत्कर्मसु 'कुशिक' ५०३ ( उणादि) इति साधुः। बजण् वर्जिणि गन्तो वा, भरन्तं वाजयति भरद्वाजः, उपगतं मन्यु बहुव्रीहिर्वा उपभन्युः ।
किरतीति 'नाम्युपान्त्य' ५-१-५४ इति के किलस्तमतति किरातस्य स्थाने वा किलातः। कस्य भार्या को, क्यां दर्भ इव पवित्रः कीदर्भः। विश्वे नग अस्य विश्वानरः । ऋष्टयः सेनायां ऋष्टिवत् सेना वा यस्य ऋष्टिषेणः । ऋतेन सत्येन भागो भागधेयं यस्य ऋत भागः ।
हरयो नीलवर्णा अश्वा यस्य हर्यश्वः । प्रिय एव प्रियकः प्रियं कायति वा । पिबति उष्णं पानीयादिकं 'कीचक' ३३ ( उणादि) इति पियकः ।
अपस्तभ्नाति अष्टप्रकारं कर्म अपस्तम्भः । कुत्सितं वान्ति विच, कुवाः तेषां पार्वेन चरति कुवाचरति कुवाचरः, बाहुलकात् दीर्घत्वे वाचरः ।
शरद् उपकारकतयाऽस्यास्ति शरद्वत् । शुनति परमां गतिं 'कीचक' ३३ ( उणादि) इति 'नाम्युपान्त्य' ५-१-५४ इति के शुन इव शुनकः । धीयते अस्मात्तत्वमिति धेनुः । गोपानुप वनति वनुते वा गोपवनः । शेरते गुणा अत्र शिनोति वा शिग्रुः। वेत्तीत्येवंशीलो 'विन्द्विच्छू' ५-२-३४ विन्दुः । तां लक्ष्मी जमति ताजमः ।
अश्वानवतनोति अश्वावतान: । श्यायतेः 'मवाक' ३७ ( उणादि ) श्यामाकः । श्यायन्ते श्याः श्यायां वसतौ गताना पर्णयति आद्रीकरोति देशनया श्यापर्णः ।
'हृश्या' २१० ( उणादि) इति हरित: । किमपि दासते किंदासः ।
वसिमस्यति 'भीणशलि' २१ ( उणादि ) इति के वस्यस्कः । अर्कमपि कशति तेजसा मकलश: । वधमर्हन्ति वध्यास्तान उाति 'मूलविभुज' ५-१-१४४ इति के वयोगः । विष्णुवत् वृष्णिवद् वा वृद्धः विष्णुवृद्धः । वृष्णिवृद्धः । प्रतिबोधयति प्रतिबोधः । रध्या तरति