SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ T पाद. १. सू. ९४-९७ ] श्री सिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २२९ संमुखम्, समं मुखमस्यानेनेति वा संमुखं प्रतिबिम्बमेव, अत एव निपातना - त्समशब्दस्य अन्तलोपः, संमुखं दृश्यतेऽस्मिन्निति संमुखीनः यथामुखीनः सीताया इति । संमुखीनो हि जयो रन्ध्रप्रहारिणामिति च उपमानात् । ९३॥ न्या० स० यथा०—अन्तलोप इति ननु सम्शब्द एव वृत्तिविषये समशब्दस्यार्थे वर्त्तिष्यते ततः किं समस्यान्तलोपेन १ उच्यते, समशब्दस्यापि विशेषण समासादौ मुखशब्देन संमुख इति यथा स्यादित्येवमर्थम् । सर्वादेः पथ्यङ्गकर्म पत्रपात्रशरावं व्याप्नोति ।। ७. १. ९४ ॥ सर्व शब्दपूर्वेभ्यः पथिन्, अङ्ग, कर्मन्, पञ्च, पात्र, शराव इत्येतदन्तेभ्यो निर्देशादेव द्वितीयान्तेभ्यो व्याप्नोतीत्यर्थे ईनः प्रत्ययो भवति । सर्वपथं च्याप्नोति सर्वपथीनो रथः । सर्वपथान् व्याप्नोति सर्वपथीनमुदकम् । एवं सर्वाङ्गीणस्तापः । सर्वकर्मीणः पुरुषः सर्वपत्रीणः सारथिः सर्वपात्रीण ओदनः, सर्वशरावीण ओदनः सर्वादेरिति किम् ? पन्थानं व्याप्नोति ॥९४ | आमपदम् ।। ७. १. ९५ ॥ प्रगतं पदं प्रपदम् पदाग्रमित्यर्थः, अथवा प्रवृद्धं पदं प्रपदम् पदस्योपरिष्टात् संस्था खलुको गुल्फ इति यावत्, आङ मर्यादायामभिविधौ वा । आ प्रपदात् आप्रपदम् 'पर्याङ् ' - ( ३-१-३२ ) इत्यव्ययीभावः । आप्रपदशब्दान्निर्देशादेव द्वितीयान्तात् व्याप्नोतीत्यर्थे ईनः प्रत्ययो भवति । " आप्रपदं व्याप्नोति न तदतिवर्तते यः स आप्रपदीनः पटः, अनेन पटस्य प्रमाणमाख्यायते । ९५ । अनुपदं बद्धा ।। ७. १. ९६ ॥ अनुपदशब्दा निर्देशादेव द्वितीयान्ताद्वद्वा इत्येतस्मिन्नर्थे ईनः प्रत्ययो भवति । अनुपदं बद्धा अनुपदीना उपानत् । पदप्रमाणेत्यर्थः । अनुपदमिति ' दैर्घ्येऽनुः ' - ( ३-१-३४ ) इत्यव्ययीभावः । ९६। न्या० स० अनु० – अनुपदमिति पदं लक्ष्यीकृत्यायतं बन्धनमिति क्रियाविशेषणत्वात् द्वितीयाभेदोपचाराद् बद्धेत्युच्यते । अयानयं नेयः ।। ७. १.९७ ॥ अयानयशब्दान्निर्देशादेव द्वितीयान्तान्नेय इत्येतस्मिन्नर्थे ईनः प्रत्ययो भवति । अयानयं नेयोऽयानयीनः शारः, फलकशिरसि स्थित उच्यते । अयः प्रदक्षिणं गमनम् अनयः प्रसव्यं वामम्, शारिद्यूते हि केचिच्छाराः प्रदक्षिणं
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy