SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति - लघुन्याससंवलिते [ पाद. १ सू. ८८-९३ ] २२८ ] पाक: पीलुकुणः, कर्कन्धुकुणः । पीलु, कर्कन्धु, शमी, करीर, बदर, कुवल, अश्वत्थ खदिर इति पीत्वादिः ॥८७॥ G कर्णादेर्मूले जाहः ॥ ७. १. ८८ ॥ कर्णादिभ्यः षष्ठ्यन्तेभ्यो मूलेऽर्थे जाहः प्रत्ययो भवति । कर्णस्य मूलं कर्णजाहम्, अक्षिजाहम् । कर्ण, अक्षि, आस्य, वक्त्र, नख, मुख, केश, दन्त, ओष्ठ, भ्रू, शृङ्ग, पाद, गुल्फ, पुष्प, फल इति कर्णादिः १८८ पक्षातिः ॥ ७. १. ८९ ॥ पक्षशब्दात्षष्ठ्यन्तान्मूलेऽर्थे तिः प्रत्ययो भवति । पक्षस्य मूलं पक्षतिः १८९ । न्या० स० पक्षा० – पक्षतिरिति मूलेप्यभिधेये शब्दशक्तिस्वाभाव्यात् स्त्रीलिङ्गः । हिमालः सहे ।। ७. १. ९० ॥ हिमशब्दात्षष्ठयन्तात्सहे सहमानार्थे एलुः प्रत्ययो भवति । हिमस्य सहः हिमं सहमान: हिमेलुः ॥९० | बलवातादूलः ।। ७. १. ९१ ॥ बलवात इत्येताभ्यां षष्ठयन्ताभ्यां सहेऽर्थे ऊलः प्रत्ययो भवति । बलस्य सहः बलं सहमानः बलूल:, वातूलः ॥९१॥ न्या० स० बल० – वातूल इति वातसहः, वातासहोऽप्येतदर्थ एवेति शब्दभेदः । शीतोष्णतृप्रादालुरसहे । ७. १. ९२ ।। शीत, उष्ण, तृप्त इत्येतेभ्यः षष्ठयन्तेभ्योऽसहेऽसहमानेर्थे आलुः प्रत्ययो भवति । शीतस्यासहः शीतमसहमानः शीतालुः, उष्णालुः, तृप्रालुः, तृप्रम् दुःखम् ।९२। यथाखमुसंमुखादीनस्तद्दश्यते ऽस्मिन् ।। ७. १.९३ ।। यथामुखसंमुख इत्येताभ्यां तदिति प्रथमान्ताभ्यामस्मिन्निति ईनः प्रत्ययो भवति यत्तत्प्रथमान्तं दृश्यते चत्तद्भवति, यथामुखं दृश्यतेऽस्मिन् यथामुखीनः आदर्शादि: मुखस्य सदृशोऽर्थो यथामुखं प्रतिबिम्ब उच्यते, अत एव निपातनाद्यथाथा ( ३-१-४१ ) इति प्रतिषेधेऽप्यव्ययीभावः । समं मुखं
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy