________________
[ पाद. २. सू. १०७- ११० ] श्रीसिद्धहेमचन्द्र शब्दानुशासने षष्ठोध्यायः
कसोमात् ट्ण् ॥ ६. २. १०७ ॥
कशब्दात्सोमशब्दाच्च सास्य देवतेत्यस्मिन् विषये टयण् प्रत्ययो भवति, अणोऽपवादः । टकारो ङयर्थः । कः प्रजापतिर्देवतास्य कायं हविः, कायी इष्टिः, कशब्दं प्रति णित्त्वस्य वैयर्थ्यादालोपो न भवति । सोमो देवतास्य सौम्यं हविः, सौम्यं सूक्तम्, सौमी ऋक् ।१०७।
[ ८९
न्या० स० कसोमादयण्-अथ कायमित्यत्र लोपात्स्वरादेशः इति न्यायेन लोपात्पूर्वं वृद्धौ कृतायां पश्चादाकारलोपः कस्मान्न भवति ? इत्याह-कशब्दं प्रतीति अकारस्याकारस्य वा लोपे विशेषाभावात्, यद्वा सकृद्गते स्पद्धे यद्बाधितं तद्बाधितमेवेत्युपतिष्ठते । द्यावापृथिवी शुनासीरामीषोम मरुत्वद्वास्तोष्प तिगृहमेधादी ययौ
॥ ६. २. १०८ ॥
एभ्यः सास्य देवतेत्यस्मिन् विषये ईंय य इत्येतौ प्रत्ययौ भवतः, अणो यस्य चापवादः । द्यौश्च पृथिवी च द्यावापृथिव्यौ ते देवते मस्य द्यावापृथिवीयम् हविः द्यावापृथिव्यम्, शुनश्च वायुः सीरश्चादित्यः शुनासीरौ तौ देवता अस्य नासीरीयम् शुनासीर्यम् | अग्निश्च सोमश्च अग्नीषामौ तौ देवता अस्य अग्नीषोमीयम्, अग्नीषोम्यम्, मरुत्वान् देवतास्य मरुत्वतीयम्, मरुत्वत्यम्, वास्तोष्पतिर्देवतास्येति वास्तोष्पतीयम् वास्तोष्पत्यम्, गृहमेधो देवतास्य गृहमेधीयम् गृहमेध्यम् ।१०८।
वावृतुपित्रुषसो यः ॥ ६. २. १०९ ॥
वायु ऋतु पितृ उषस् इत्येतेभ्यः सास्य देवतेत्यस्मिन् विषये यः प्रत्ययो भवति, अणोऽपवादः । वायुर्देवतास्य वायव्यम् । एवम् ऋतव्यम्, पित्र्यम्, उषस्यम् ।१०९।
न्या० स० वाय्वृतु पित्रु० - उषस्यमिति संध्यावाचकः स्त्रीक्लीबः प्रभातवाचकस्तु नपुंसकलिङ्गः, उषा देवताऽस्येति विग्रहः ।
महाराजप्रोष्ठपदादिकण् ॥। ६. २. ११० ॥
महाराज प्रोष्ठपद इत्येताभ्यां सास्य देवतेत्यस्मिन् विषये इकण् प्रत्ययो भवति । अणोऽपवादः । महाराजो देवतास्य माहाराजिकः । माहाराजिक, प्रोष्ठपदिकः, प्रोष्ठपदिकी । ११०
न्या० स० महाराज० – पौष्ठपदिक इति पौष्ठो गौस्तस्येव पादावस्य सुप्रातसुश्व ' ७-३ - १२९ इति डे निपातः प्रोष्ठपदः पुरुषः नामग्रहणेऽपि खीलिङ्गोऽपि नक्षत्रवाची