SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ८८ ] बृहद्वृत्ति-लघुन्यामसंवलिते [पाद. २. सू. १०२-१०६ ] जैनः, आग्नेयो ब्राह्मणः, ऐन्दं हविः, ऐन्द्रः पुरोडाशः, वारुणश्चरुः, आदित्यः, बार्हस्पत्या, मव्यम्, द्वोन्द्रम् ।१०१॥ पैङ्गाक्षीपुत्रादेरीयः ॥ ६. २. १०२ ।। पैङ्गाक्षीपुत्र इत्येवमादिभ्य ईय: प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये, अणोऽपवादः। पैङ्गाक्षीपुत्रो देवतास्य पैङ्गाक्षीपुत्रोयं हविः, तार्णाबिन्दवो देवतास्य तार्णबिन्दवीयं हविः एवं पैङ्गोपुत्रीयम्, पैङ्गाक्षीपुत्रादयः प्रयोगगम्याः ।१०२। न्या० स० पैङ्गाक्षीपुत्रादेः पिङ्गे अक्षिणी यस्य 'सक्थ्यक्ष्णः स्वाङ्गे' ७-३-१२६ (इति) टः, पिङ्गाक्षस्यापत्यं वृद्धं स्त्री, 'अत इञ्' ६-१-३१ 'अनार्षे वृद्धे । २-४-७८ इति ष्यः, आप पिङ्गाक्षायाः पुत्रः 'प्या पुत्रपत्योरीच् ' २-४-८३, अनन्तरापत्ये वा इजू, तदा 'नुर्जातेडीः' २-४-७२ पिङ्गाक्ष्याः पुत्रः । शुक्रादियः ॥ ६. २. १०३ ॥ शुक्रशब्दादियः प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये । शुक्रियं हविः, शुक्रियोऽध्यायः ।१०३।। शतरुद्रात्तौ ।। ६. २. १०४ ।। शतरुद्रशब्दात्तौ ईय इय इत्येतौ प्रत्ययो भवत: सास्य देवतेत्यस्मिन् विषये । शतसंख्या रुद्राः शतरुद्राः, ते देवता अस्य शतरुद्रीयं शतरुद्रियम् । शतं रुद्रा देवतास्येति द्विगावपि विधानसामर्थ्यात् लुब् न भवति ।१०४। अपोनपादपान्नपातस्तृ चातः ॥ ६. २. १०५ ॥ अपोनपादपान्नपात् इत्येताभ्यां तौ प्रत्ययौ भवतः सास्य देवतेत्यस्मिन् विषये तत्सनियोगे चानयोराच्छब्दस्य तृ इत्ययमादेशो भवति । अपोनपात देवतास्य अपोनप्त्रोयम् अपोनप्त्रियम् अपांनप्त्रीयम् अपान्नप्त्रियम् ।१०५॥ ___ न्या० स० अपोनपाद-अपोनप्त्रीयमिति न पातीति शतृः नखादित्वाददभावः, ततोऽप: कर्मतापन्ना नपात, अत एव निर्देशादलुप, यद्वाऽपकृष्टमूनमपोनं तत्पातयति क्विप् अपकृष्टमन्नपान्नं तत्पातयति क्विप् । महेन्द्राधा ॥ ६. २. १०६ ।। महेन्द्रशब्दात्सास्य देवतेत्यस्मिन् विषये तो प्रत्ययौ वा भवतः। महेन्द्रीयम्, महेन्द्रियम्, पक्षे अण्-माहेन्द्रं हविः ।१०६।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy