SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ४७४ ] स्वोपज्ञोणादिगणसूत्रविवरणम् । [ सूत्र-९६५-९७१ अब्ज् इत्यादेशाश्चास्य भवन्ति । अपः-सत्कर्म, अप्तः-तदेव, अप्सरसः-देवगणिकाः, अब्जःजलजम् , अजयं च रूपम् ।। ६६४ ।। उच्यञ्चेः क च ॥ ६६५॥ उचच समवाये, अञ्चू गतौ चेत्याभ्याम् अस् प्रत्ययो भवत्यनयोश्च कोऽन्तादेशो भवति । ओक:-आलयः, जलौकसश्च । अङ्कः-स्वाङ्गम् , रणश्च ।। ९६५ ।। अज्यजि-युजि-भृजेर्ग च ।। ६६६ ॥ एभ्यः अस् प्रत्ययो भवति, गकारश्चान्तादेशो भवति । अञ्जौप् व्यक्त्यादौ, अङ्ग:-क्षत्रियनाम, गिरिपक्षी, व्यक्तिश्च । अज क्षेपणे च, अग:-क्षेमम् । युजपी-योगे, योगः-मनः-युगं च । भृजङ भर्जने, भर्गः-रुद्रः, हविः, तेजश्च ।। ९६६ ॥ अर्तेरुरारौं च ।। ६६७ ॥ ऋक् गतौ, इत्यस्माद् अस् प्रत्ययो भवत्यस्य च उरिति अश् इति च तालव्यशकारान्तः आदेशो भवति । उरः-वक्षः । अऑसि-गुहादिकीलाः ।। ९६७ ।। येन्धिभ्यां यादेधौ च ॥ ९६८॥ यांक प्रापणे, त्रिइन्धपि दीप्ती, इत्याभ्याम् अस् प्रत्ययो भवति, यथासख्यं च याद् एध इत्यादेशौ भवतः । याद:-जलदुष्टसत्त्वम् । एषः-इन्धनम् ।। ६६८ ।। चक्षः शिद्वा ॥ ६६६ ॥ चक्षिङक व्यक्तायां वाचि, इत्यस्माद् अस् प्रत्ययो भवति, स च शिद्वा भवति । चक्षः, ख्याः, उभे अपि रक्षोनाम्नी । आचक्षाः-वाग्मी। आख्याः, प्रख्याश्च-बृहस्पतिः । संचक्षा:-ऋत्विक् । नृचक्षा:-राक्षसः ।। ६६९।। वस्त्यगिभ्यां णित् ॥ ६७० ॥ वस्त्यगिभ्यां णिद् अस् प्रत्ययो भवति । वसिक् आच्छादने, वासः-वस्त्रम् । अग कुटिलायां गतो, आगः-अपराधः ।। ९७० ।। मिथि-रज्युषि-त-पृ-श-भूवष्टिभ्यः कित् ।। ६७१ ॥ एभ्यः किद् अस् प्रत्ययो भवति । मिथग् मेधा हिंसयोः, मिथ:-परस्परम् , रहसि चेत्यर्थः । रजी रागे, रजः-गुणः, अशुभम् , पांसुश्च । उष दाहे, उषा सन्ध्या, अरुणः, रात्रिश्च । त प्लवन-तरणयोः, तिरस्करोति-तिरः कृत्वा काण्डं गतः। तिर इति अन्तविनृजुत्वे च । पृश् पालन पूरणयोः, पुरः पुजायाम् । तथा च पठन्ति नमः पूजायां पुरश्चेति । शृश् हिसायाम् , शृणाति-तद्वियुक्तमिति, शिरः-उत्तमाङ्गम् । भू सत्तायाम् , भुवः-लोकः, अन्तरिक्षम् , सूर्यश्च । वशक् कान्ती, उशा-रात्रिः ।। ९७१ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy