SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् [ सूत्र-६५३-६६० आभ्यां कित् तिः प्रत्ययो भवति नकारश्चान्तो भवति । कुङ शब्दे, कुन्तिः-राजा, कुन्तयः-जनपदः । चिंग्ट् चयने, चिन्तिः- राजा ।। ६५२ ।। खन्यमि-रमि-बहि-वस्यतॆरतिः ॥ ६५३ ॥ एभ्योऽतिः प्रत्ययो भवति । खल संचये च, खलति:-खल्वाटः। अम् गती, अमतिः-चातकः, छागः, प्रावृट् , मार्गः, व्याधिः, गतिश्च । रमि क्रीडायाम् , रमतिःक्रीडा, कामः, स्वर्गः, स्वभावश्च । वहीं प्रापणे, वहति:- गौः, वायुः, अमात्यः, अपत्यं, कुटुम्बं च । वसं निवासे, वसतिः-निवासः, ग्रामसंनिवेशश्च । ऋक् गतौ, अरतिः-वायुः, सरणम् , असुखं क्रोधः, वर्म च ।। ६५३ ।। हन्तेरंह च ॥ ६५४॥ हनक हिंसागत्योः, इत्यस्मादतिः प्रत्ययो भवत्यस्य च अंह. , इत्यादेशो भवति । अंहतिः-व्याधिः, पन्थाः, कालः, रथश्च ।। ६५४ ।। वृगो व्रत् च ॥ ६५५ ॥ वृन्ट् वरणे, इत्यस्माद् अतिः प्रत्ययो भवत्यस्य च व्रत् इत्यादेशो भवति । व्रततिः-वल्ली ।। ६५५ ।। अञ्चेः क च वा ॥ ६५६ ॥ अञ्चू गतो चेत्यस्माद् अतिः प्रत्ययो भवत्यस्य च क् इत्यन्तादेशो वा भवति । अङ्कतिः-वायुः, अग्निः, प्रजापतिश्च । अञ्चतिः-अग्निः ॥ ६५६ ।। वातेणिद्वा॥ ६५७॥ वांक् गतिगन्धनयोः, इत्यस्माद् अतिः प्रत्ययो भवति, स च गिद् वा भवति । वायतिः-वातः, वाति:-गन्धमिश्रपवनः ।। ६५७ ॥ योः कित् ॥ ६५८ ॥ युक् मिश्रणे, इत्यस्माद् अतिः प्रत्ययः किद् भवति । युवतिः तरुणी॥ ६५८ ॥ पातेर्वा ॥ ६५९ ॥ पांक रक्षणे, इत्यस्माद् अतिः प्रत्ययः स च किद्वा भवति । पतिः-भर्ता, पातिःभर्ता, रक्षिता, प्रभुश्च ।। ६५९ ॥ अगि-विलि-पुलि-क्षिपेरस्तिक ।। ६६० ॥ एभ्यः किद् अस्तिः प्रत्ययो भवति । अग कुटिलायां गतो, अगस्तिः। विलत वरणे, विलस्तिः । पुल महत्त्वे, पुलस्तिः। क्षिपीत् प्रेरणे, क्षिपस्तिः। एते लौकिका ऋषयः । अगस्तिः -वृक्षजातिश्च ।। ६६० ।।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy